भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 488, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 488

मेर्त्रादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ४२५ शुकनासोच्छ्रितिः शेषं सिंहेनाधिष्ठिता भवेत् । पादोनभागा ग्रीवाण्डं सपादं पदमुच्छ्रितम् ॥ रेखा १++ विधा( त )व्यं ++ न्यूनाधिकमण्डकम् । सपादभागमानेन कर्तव्यं चन्द्रिकाद्वयम् ॥ पद्मपत्राकृतिं कुर्यान्मध्ये चामलसारि(काम् ) । द्विपदं कलशं कुर्याद् बीजपूरकवर्जितम् ॥ श्रीवत्सं कारयेद् यस्तु प्रासादमतिसुन्दरम् । कुलानां शतमुद्धृत्य स व्रजत्यमरावतीम् ॥ श्रीवत्सः ॥ अथ हंसस्य वक्ष्यामः प्रासादस्येह लक्षणम् । चतुरश्रीकृते क्षेत्रे चतुर्भिर्विभजेत् पदैः ॥ भागैश्चतुर्भिर्गर्भः स्याद् २भित्तिर्द्वादशभागिकी । भागद्वयेन भद्राणि ततश्च परिकल्पयेत् ॥ चतुर्भागेन निष्क्रामस्तेषां गर्भस्य शस्यते । भागस्य षोडशांशेन कुर्याद् नीरै३(रा)न्तराणि च ॥ ४पीठिका वेदिकाबन्धो जङ्घा मेखलया सह । ऊर्ध्वमानं च कर्तव्यं स्वस्तिकस्य यथोदितम् ॥ मध्ये किन्नररूपाणि पद्मपत्राणि चाप्यधः । उपरि व्यालहारांश्च पीठमेवं विभूषयेत् ॥ त्रिभौमं पञ्चभौमं वा कुर्यादेनं विचक्षणः । नागरं द्रावि(डे५ ?)श्चेति कर्णे कर्णे निवेशयेत् ॥ भूमिकाभाञ्जि कूटानि कुर्यादेकान्तराणि च । रथिके रथिका (?) कुर्याद् ( विन्य ? ) नागरकर्मणा ॥ विस्ताराधेन वेदी स्याद् ग्रीवा७ चास्य पदार्धिका । अण्डकं पदिकं कार्यं कङ्कतीफलसन्निभम् ॥ १ द. विवे। २ द. र्भृं । ३ द. रत। ४ द. पीठकं वेँ। ५ द. इतः परं 'वराटं द्राविडं चापि नागरं वा विशेषतः । जङ्घामध्ये विश्रान्तव्यं कर्मलोकेक्षणोत्सवम् ॥ इत्यधिकः पाठः । ६ द. डश्चेति । ७ द. ग्रवो । वा. ५४