समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 493, कुल 726 में से
संदर्भ में पढ़ें४३० समराङ्गणसूत्रधारे अथाभिधीयते सम्यक् प्रासादो नन्दिवर्धनः । नन्दयत्येष कर्तारं पुत्रदारधनादिभिः ॥ चतुरश्रीकृते क्षेत्रे भजेत् षोडशभिः पदैः । शतद्वयं विभागाः स्युः षट्पञ्चाशत् तथा(परैः ? ) ॥ गर्भः शतपदः कार्यों भित्तिश्च त्रिपदायता । कर्णप्रमाणं त्रिपदं नवबन्धसमन्वितम् ॥ भागायतं भागपदं(पाद)विस्तीर्णं वारिवर्त्म च । विभजेत् पञ्चधा कर्णं तस्य भद्रं त्रिभिः पदैः२ ॥ भागं भागं भवेत् कर्णे३ भागार्धं भद्रनिर्गमः । प्रत्यङ्गं द्विपदं कुर्याद् वारिमार्गेण संयुतम् ॥ निर्गमाँ(मः) सार्धभागेन पार्श्वयोरुभयोरपि । शालाषट्पदविस्तारा प्रत्यङ्गा भौगनिर्गतम् ॥ भद्रं तदग्रतः कुर्याद् विस्तारेण चतुष्पदम् । भागार्धनिर्गमं६ सम्यग् (दिक्षु) सर्वास्वयं विधिः८ ॥ कर्णस्यार्धे नयेद् गर्भाद् वृत्तं तत् पूर्वमालिखेत् । अनुसारेण वितरेदङ्गप्रत्यङ्गनिर्गमम् ॥ सार्धभागं गजाधारं साब्जपत्रं समेखलम् । कुर्यात् पदं पादहीनं जङ्घाकुम्भसमुच्छ्रितम् ॥ भागपादेन कणकं पादोनान्तरपत्रकम् । तैन११धं ग्रासहारं च भागार्धं खुरकं तथा ॥ खुरकेण समं प्रोक्ता पीठस्यैषा समुच्छ्रितिः । विस्ताराद् द्विगुणश्चायं (स्यादूर्ध्वकल्पयाधकः ?) तुलोदयो विधातव्यस्त्रयोदशभिरंशकैः । विंशत्यंशं तु शिखरं ++++ श्रतुष्पदम् ॥ १ द. तयापरे । २ द. पदं । ३ द. र्णो । ४ द. मा । ५ द. द्धा । ६ द. मम् । ७ द. ंतं । ८ द. धेः । ९ द. ˚न यद्गं । १० द. ˚समुद्धृतिं । ११ द. य ।