समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 517, कुल 726 में से
संदर्भ में पढ़ें४५४ समराङ्गणसूत्रधारे प्रमाणमन्यदप्यस्य हर्म्यस्यैवाखिलं भवेत् । उज्ज्यन्तः^{२} ॥ इदानीमभिधास्यामो गन्धमादनलक्षणम् ॥ २२२ ॥ हर्म्यमानेन कर्तव्यः प्रासादो गन्धमादनः । अग्रतः पृष्ठदेशे च मण्डपं तस्य कारयेत् ॥ २२३ ॥ चतुष्कीजालपक्ष्माद्या वामदक्षिणभागयोः । प्रमाणमस्य कर्तव्यं यथा हर्म्यस्य कीर्तितम् ॥ २२४ ॥ गन्धमादनः ॥ ब्रूमोऽथ शतशृङ्गं स त्रिविष्टपंसमो भवेत् । विभजेद् भागविंशत्या पञ्चभौमं च कारयेत् ॥ २२५ ॥ +द्विभागानि कूटानि सैकमण्डशतं भवेत् । भूमौ भूमौ च शृङ्गाणि भूविस्तारदशांशतः ॥ २२६ ॥ प्रमाणमस्य यत्किञ्चित् तत् त्रिविष्टपवद् भवेत् । निरवद्यः^{६} ॥ विश्रान्तमथ वक्ष्यामः सर्वतोभद्रसन्निभम् ॥ २२७ ॥ सान्धारं तं प्रकुर्वीत सर्वतो मण्डपैर्युतम् । गवाक्षां वेदिजालाद्याः(?) कुर्याद् दिक्षु चतुष्किकाः ॥ २२८ ॥ विश्रान्तः ॥ मनोहरमथ ब्रूमः स भवेन्मण्डपो यथा । साच्छाद्यतोरणैर्दिक्षु चतुर्द्वारः समण्डपः ॥ २२९ ॥ वेदिर्षण्डाम्बुमार्गाद्यैः^७ प्रतोलीद्वारजालिकैः । सिंहपीठतलन्यासैः कलशैः परिपूरितः ॥ २३० ॥ वृत्तस्तम्भस्तुलाच्छेन्नो बहिश्चाद्येन भूषितः । सिंहव्यालगजैः पत्रैर्मुखे सस्तम्भतोरणैः ॥ २३१ ॥ १ द. स्यै । २ द. प्रतौ नास्ति । ३ द. ऽथ सततं शृंगं । ४ द. पस्य । ५ द. त । ६ इद 'शतशृङ्ग' इति लेख्यम् । निरवद्यस्य लक्षणमपि गलितम् । ७ द. क्षं । ८ द. ख । ९ द. यः । १० द. च्छेद्रो ।