समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 518, कुल 726 में से
संदर्भ में पढ़ेंविमानादिचतुष्षष्टिप्रसांदलक्षणं नामैकोनषष्टितमोऽध्यायः । ४५९ पुनः कार्यं प्रमाणं तु यथाशोभं विधीयते । मनोहरः ॥ वृत्तवृत्तायतौ ब्रूमस्तयोः कम्बुसमाकृतिः ॥ २३२ ॥ वृत्तस्तत्र तलन्यासचतुरस्रोऽशपञ्चकम् (?)। वृत्तायन्मूर्ध्वतो वृत्तं यथाशोभं समुत्थितम् ॥ २३३ ॥ कुर्यान्मुखायतं चान्यं सिंहकर्णान्वितं मुखे । वृत्तवृत्तायतौ ॥ चैत्यस्य लक्षणं ब्रूमः स स्याच्छा(थ)त्रयान्वितः ॥ २३४ ॥ अस्याकारः प्रमाणं च यथा वृत्ते तथा भवेत् । चैत्यः ॥ किङ्किणीकमथ ब्रूमः पञ्चाण्डं नवभूमिकम् ॥ २३५ ॥ वृत्तकूटाः शुभाः कार्याः सर्वेऽमी शुभलक्षणाः । किङ्किणीकः ॥ इदानीं लयनं ब्रूमः स शैलखननाद् भवेत् ॥ २३६ ॥ निःश्रेण्यारोहसोपाननिर्यूहकगवाक्षकान् । वेदीभ्रमविटङ्कांश्च प्रतोलीद्वारसंयुतान् ॥ २३७ ॥ ( उत्कीर्णान्नाचरे तैरप्राग्रीवन्मानं च ? ) । लयनम् ॥ इदानीं पट्टिसं ब्रूमः प्रासादं वस्त्रसम्भवम् (?) ॥ २३८ ॥ ( ⁴बोहातो ? ) जालपादैश्च वेदीषण्डैश्च मण्डितम् । कूर्मपृष्ठं प्रदातव्यमिच्छता शुभलक्षणम् ॥ २३९ ॥ पट्टिसः ॥ विभवः कथ्यते स स्यात्⁵ ( सुर्यामन्यसमाश्रयः ? ) । दारवे दारवो योज्यः शैलजे शैलसम्भवः ॥ २४० ॥ मृन्मये मृन्मयः कार्यश्चयने ⁶चयनोद्भवः । प्रत्यन्तग्रामखेटेषु दारुस्तम्भैर्विधीयते ॥ २४१ ॥ १ द. चित्रा । २ द. च्छि्र । ३ द. त्त । ४ द. बाह्यतो जाँ । ५ द. नं (नां) । ६ द. त्यु । ७ द. म । ८ द. न ।