भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 519, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 519

४९६ समराङ्गणसूत्रधारे विभवस्यानुसारेण स कार्यों धार्मिकैस्त्रिभिः । विभवः ॥ तारागणमथ ब्रूमः स भवेन्मण्डपाकृतिः ॥ २४२ ॥ वस्त्रचीरतुलाशाण्डो (?) डोलाक्रीडाभ्रमैर्गृहैः । वस्त्रजैश्चित्ररूपाद्यैर्घण्टादर्पणतोरणैः ॥ २४३ ॥ ध्वजच्छत्रविमानाद्यैः किङ्किणीभिर्विराजितम् । यत्किञ्चित् सुन्दरं सर्वं तदत्र विनिवेशयेत् ॥ २४४ ॥ तारागणः ॥ अष्टाष्टकैर्द्वे च विशेषयोगात् प्रासादषष्टिश्चतुरन्वितेषा । विमानमुख्याः कथिता य एतान् (जोनायस्यैस ?) शिल्पिगणाग्रणीः स्यात् ॥ २४५ ॥ इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे विमानादिचतुःषष्टिनामैकोनषष्टितमोऽध्यायः ॥ अथ श्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः । षड्त्रिं(द्त्रिं)शतमथ ब्रूमः प्रासादान् नागरक्रियान् । साधारणान् प्रथमैस्तेषु श्रीकूटः श्रीमुखस्ततः ॥ १ ॥ श्रीधरो बर्दरश्चैव तथाभ्यः(न्यः) प्रियदर्शनः । कुलनन्दोऽन्तरिक्षश्च पुष्पभासो विशालकः ॥ २ ॥ सङ्कीर्णोऽथ महानन्दो नन्द्यावर्तस्तथापरः । सौभाग्यश्च विभङ्गश्च विभवस्तदनन्तरम् ॥ ३ ॥ वीभत्सकोऽथ श्रीतुङ्गो मानतुङ्गस्तथापरः । (भेवतो र्भद्र ?) संज्ञश्च (भैवद्वाह्योदरस्तचः ?) ॥ ४ ॥ १ द. एषां । २ मु. पु. ‘जानात्यसौ’ इति स्यात् । ३ द. र्गणा । ४ द. मा । ५ मु. पुस्तकानुसारेण ‘वरद’ इति लक्षणे दृश्यते । ६ द. ष्पा । ७ द. र्णाय । ८ द. भाग । ९ मु. पु. ‘सर्वतोभद्र’ इति स्यात् । १० द. भ । ११ मु. पु. ‘भवेद् बाह्योदरस्ततः’ इति पाठः स्यात् ।; द. भवेद्वाह्योदरस्तवः ।