समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 520, कुल 726 में से
संदर्भ में पढ़ेंश्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः । ४१७ निर्व्यूहोदर(संज्ञोऽन्य)स्ततो ज्ञेयः समोदरः । नन्दिभद्रो भद्रकोशश्चित्रकूटस्ततः परम् ॥ ५ ॥ विमलो हर्षणो भद्रसङ्कीर्णस्तदनन्तरम् । ततो भद्रविशालाख्यो भद्रविष्कम्भे एव च ॥ ६ ॥ उज्जयनताभिधानश्च सुखे(मे)रुरथ मन्दरः । कैलासः कुम्भकाक्ष(क्ष्य)श्च गृहराजश्च नामतः ॥ ७ ॥ एतेषां(षट्)त्रिंशादुद्दिष्टा लक्षणं कथ्यतेऽधुना । चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते ॥ ८ ॥ प्रासादं विभजेत् प्राज्ञः श्रीकू(टं) नाम शोभने(नम्) । ज्येष्ठः स्याद् विंशतिर्हस्ता मध्यमो दश पञ्च च ॥ ९ ॥ कनीयान् दश विज्ञेयः प्रमाणं हस्तसङ्ख्यया । भद्रं षड्भागिकायामं(मं) कर्णाः कार्या द्विभागिकाः ॥ १० ॥ तिलकं भागिकं कार्यं भागेनैकेन निर्गतम् । तस्माद् भागेन निष्क्रान्तं भद्रमस्य विधीयते ॥ ११ ॥ भागिकी बाह्यभित्तिः स्याद् द्विपदा चान्धकारिका । भागिकी गर्भभित्तिश्च गर्भः कार्यश्चतुष्पदः ॥ १२ ॥ अधश्छन्दः समुद्दिष्ट ऊर्ध्वच्छन्दोऽभिधीयते । विस्तारार्धेन जङ्घा स्यान्मेखला चैकभागिका ॥ १३ ॥ भागत्रयोच्छ्रितं शृङ्गं द्वितीयमपि तादृशम् । पूर्वशृङ्गस्य मध्ये तद् विधातव्यं विचक्षणैः ॥ १४ ॥ सार्धभागोदयः कार्यस्तिलकोऽन्यश्च तादृशः । द्वितीयतिलकस्योर्ध्वं सुश्लिष्ट(ष्टा) रूपसंयुता ॥ १५ ॥ स्यादुरोमञ्जरी सप्तभागोत्सेधा षडायता । स्याद् भागिकमूर्च्छा(ध्छ्र्छा)यं मञ्जर्या या तु विस्तृतिः ॥ १६ ॥ १ द. नामाभ्य । २ द. न्व । ३ द. मागतः । ४ द. ते । ५ द. या । ६ द. °दः बाध्र° । ७ द. य । ८ द. वस्था । वा. ५८