भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 521, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 521

४९८ समराङ्गणसूत्रधारे दशधा प्रविभाज्यासौ शेषं श्रीवत्सवद् भवेत् । स्कन्धः षड्भागविस्तारो ग्रीवा भागार्धमुच्छ्रिता ॥ १७ ॥ अण्डकं भागिकं कार्यं कुमुदं चार्धभागिकम् । सार्धभागेन कलशो बीजपूरकसंयुतः ॥ १८ ॥ द्वितीयकर्णशृङ्गस्य स्यादूर्ध्वं मूलमञ्जरी । ++++++++ १अष्टभागंसमुच्छ्रिता ॥ १९ ॥ श्रीवत्सवद् विभागोऽस्याः स्कन्धग्रीवादिके भवेत् । एवं श्रीकूटसंक्षेपं (ज्ञोऽयं) प्रासादः परिकीर्तितः ॥ २० ॥ यं कृत्वा त्रिसहस्राणि दिव्यानि दिवि मोदते । श्रीकूटः ॥ अथ लक्ष्म २+++++++ स्याभिधीयते ॥ २१ ॥ तुल्यं प्रासादमानेन विदध्यादिह मण्डपम् । मुखायामेन तिर्यक् तु चतुरश्रं ३++++ ॥ २२ ॥ ४+++ भद्रविस्तारः कर्णाश्च तिलकास्तथा । मध्ये चतुष्किका कार्या भद्रविस्तारसम्मिता ॥ २३ ॥ नि५++++++ विधातव्यस्तु मण्डपे । जङ्घाप्रासादजङ्घायाः समोत्सेधा(?)विधीयते ॥ २४ ॥ मेखलं भागिकं ६++++++ च पूर्ववत् । स्तम्भं त्र्यंशोच्छ्रितं भागं वेदी घण्टा त्रिभागिका ॥ २५ ॥ क्रमाश्रयो यवाः पञ्च ७सिंहक +++++ । शोभिताः सिंहकर्णैश्च ८वृच्छाद्याङ्गातिभूषिताः (?) ॥ २६ ॥ मण्डपं कारयेदेवं श्रीकूटस्य विचक्षणः । श्रीकूटस्यं मण्डपः समाप्तः । अलिन्दे तु यदास्यैव क्रियते ११ भद्रवेदिका १२ (यदा ?) ॥ २७ ॥ १ द. इतः पूर्वं ‘प्रविस्तारा दशभाग स°’ इत्याधिकः पाठः । २ द. °मां तदीयस्य मंडपास्या° । ३ द. °सं समंततः । ४ द. तथैव । ५ द. निर्गमस्तेन मानेन वि° । ६ द. °कां कुर्यान्मन्वच्छाद्यं । ७ द. सिंहव्याघ्रविभूषिताः । ८ द. वृ । ९ द. य । १० द. श्रीकूटस्य विक्षणं भूषणं समण्डपः समाप्तः पाठः । ११ द. न्ते । १२ काः ।