भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 524, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 524

श्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः । ४६१ नन्द्यावर्त इति ज्ञेयः प्रासादः स तदा बुधैः । नन्द्यावर्तः ॥ अन्तरिक्षषट्कम् । सौभाग्यमथ वक्ष्यामः स स्याद् द्वादशभिः पदैः ॥ ४६ ॥ उत्तमो विंशतिर्हस्तो मध्यमो दश पञ्च च । कनीयान्त्रिस(न् दश) मानेन सौभाग्यो मानतस्त्रिधा ॥ ४७ ॥ गर्भश्चतुर्भिर्भागैः स्याद् भद्रं तद्द्विस्तुतेः समम् । भद्रस्यार्धेन तिलकाः कर्णाः कार्या द्विभागिकाः ॥ ४८ ॥ द्वे द्वे पदे विधातव्यस्तथैकैकस्य निर्गमः । भद्राणां निर्गमं यद्वा विदध्यादेकभागिकम् ॥ ४९ ॥ भागिका¹ गर्भभित्तिस्तु² द्विपदा च प्रदक्षिणा³ । भागिकी बाह्यभित्तिः स्याज्जङ्घोच्छ्रायः पदानि षट् ॥ ५० ॥ भागिका⁴ मेखला प्रोक्ता (शृङ्गे⁵ ?) तन्मध्ये शिखरं भवेत् । मल्लच्छाद्यं च मध्ये स्याच्छृङ्गस्य शिखरस्य च ॥ ५१ ॥ एकभागोच्छ्रितं तच्च मञ्जर्यास्त्विह विस्तृतैः । ⁶गर्भभित्तिसमा कार्या सप्तभागा समुच्छ्रितिः ॥ ५२ ॥ ऊर्ध्वं द्वितीयशृङ्गस्य पूर्ववन्मूलमञ्जरी । अण्डकाद्यं यथोक्तं स्यात् सौभाग्योऽयं प्रकीर्तितः ॥ ५३ ॥ सौभाग्यः ॥ विधीयते यदास्यैव विना भद्रमलिन्दकः । तदा विभङ्गको नाम प्रासादः स्यात् सुशोभनः ॥ ५४ ॥ विभङ्गकः ॥ यदि भद्रस्य निष्कासः क्रियतेऽस्य तदा पुनः । प्रासादो विभवो नाम जायते परमोत्तमः ॥ ५५ ॥ विभवः⁷ ॥ १ द. कां । २ द. सु । ३ द. णः । ४ द. की । ५ द. शृं । ६ द. गर्भे । ७ द. प्रतौ नास्ति ।