समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 528, कुल 726 में से
संदर्भ में पढ़ेंश्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः । ४६५ मल्लुच्छाद्यं विधातव्यमुत्सेधेनार्धभागिकम् । पदोत्सेधं च शिखरं गर्भभित्तिसमं भवेत् ॥ ८५ ॥ भागिकः कलशः कार्यो ध्वजशं१+स्य तत्समः । एतस्य मूलशिखरं कुर्यात् षड्भागविस्तृतम् ॥ ८६ ॥ भागाधिकसमुत्सेधं कार्यं कल्याणमिच्छता । ऊर्ध्वं तिलकश्शृङ्गस्य शिखरं स्यात् पदोच्छ्रितम् ॥ ८७ ॥ पञ्चाशाद्विस्तृतं (?) शेषं श्रीवत्सस्येव कारयेत् । इत्येष कथितः सम्यगुज्जयन्तोऽभिधानतः ॥ ८८ ॥ कार्योऽयं ४सर्वदेवस्य प्रासादः शुभलक्षणः । उज्जन्तः ॥ चित्रकूटा(दू) यथोत्पन्नाः प्रासादा विमलादयः ॥ ८९ ॥ उज्जन्तात् तथा पञ्च मेरुप्रभृतयो मताः । मेरुश्च मन्दरश्चैव कैलासः कुम्भ एव च ॥ ९० ॥ गृहराज इति प्रोक्ताः प्रासादास्ते सुलक्षणाः । अष्टोत्तरमिहोद्दिष्टं प्रासादानां शतं बुधैः ॥ ९१ ॥ ज्येष्ठमध्यकनिष्ठानां साधारणां तथैव च । तेष्वलिन्दैर्युताः केचिद् भद्रैः केचिच्च वेष्टिताः ॥ ९२ ॥ केचिद् वर्णसमाः कार्याः प्रासादाः सर्वशोभनाः । सर्वेऽप्येते विधातव्या (रिजं ? ) भागप्रतिष्ठिताः ॥ ९३ ॥ क्रोणा न विषमाः कार्या वर्गभेदश्च नेष्यते । एकहस्ता द्विहस्ता ++++ ये प्रकीर्तिताः ॥ ९४ ॥ यक्षनारगृह्यादीनां (?) रक्षसां च भवन्ति ते । भागेन (धूमः ऋतु ?) त्रेधा विनिर्दिशेत् ॥ ९५ ॥ ज्येष्ठं मध्यं कनीयश्च ज्ञेयं तच्चांशमानतः । ज्येष्ठं सार्धत्रिहस्तं स्यात् त्रिहस्तं मध्यमं विदुः ॥ ९६ ॥ १ द. ध्वजवंशश्च तं० । २ द. पदु । ३ मु. पुस्तके 'पञ्चाशविस्तृतम्' इति स्यात् । ४ द. सर्वदैव स्यात् प्रा० । ५ द. घु । ६ द. रिजुतामग्रं० । ७ क्ष । वा. ५९