भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 529, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 529

सार्धहस्तद्वयमितं कनीयस्तद् विधीयते । त्रिहस्तं ज्येष्ठमपरं १मध्यं हस्तसमन्वितम् ॥ ९७ ॥ अर्धहस्तं कनीयश्च मानं भागस्य कीर्तितम् । ज्येष्ठो भागो द्विहस्तः स्यात् पादोनं मध्यमः करम् ॥ ९८ ॥ कनीयान् मध्यमार्थेन भागमानमिदं करैः । षडन्वितास्त्रिंशदमी विचित्राः श्रीकूटका( यातितिथा ग्रवात् ? ) । प्रासादमुख्या इह षट्कप्रभेदा भिन्ना +++ सह मण्डपैश्च ॥ ९९ ॥ इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे श्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः ।!

अथ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः ।

इदानीं द्राविडान् ब्रूमः प्रासादाञ् शुभलक्षणान् । एकभूम्यादयस्ते स्युर्यावद् द्वादशभूमिकाः ॥ १ ॥ पीठान्यपि च कथ्यन्ते तेषां पञ्चैव लक्षणैः । तलच्छन्दाश्च पञ्चैव तेषां ये शुभलक्षणाः ॥ २ ॥ पीठमाद्यं भवेत् तेषु पादबन्धनमुत्तमम् । स्त्री(श्री)बन्धाख्यं द्वितीयं च तृतीयं वेदिबन्धनम् ॥ ३ ॥ प्रतिक्रममिति प्रोक्तं चतुर्थं पीठमुत्तमम् । पञ्चमं पीठमुद्दिष्टं नाम्ना क्षुरकबन्धनम् ॥ ४ ॥ एतानि पञ्च पीठानि प्रोक्तानीह समासतः । उत्सेधं भागविंशत्या विभजेत् पादबन्धने ॥ ५ ॥ १ द. र्धं । २ द. मध्यमर्हं । ३ द. ˚क˚ । मुद्रित पुस्तके ‘याः कथिता यथावद्’ इति स्यात् । ४ द. ट्क । ५ द. पुस्तके ‘प्रासादलक्षणं’ इत्ययं पाठः नास्ति । ६ द. कः ।