समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 530, कुल 726 में से
संदर्भ में पढ़ेंपीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः । ४६७ खुरकः पञ्चभागः स्याद् (द्वौ१) भागौ पद्मपत्रिका । भागिकी कणिका कार्या त्रिभागं कुमुदं भवेत् ॥ ६॥ कण्ठस्तु भागेनैकेन कण + श्र द्विभागिकः । पट्टिका भागमेकं स्याद् भागिकी पद्मपट्टिका ॥ ७॥ त्रिभागिकं कपोतं च कुर्यान्नासिकया सह । भागमेकं भवेच्छेद(:)पादबन्धाख्यपीठके ॥ ८॥ पद्मपत्र्याः प्रवेशः स्यात् खुरकादङ्गुलद्वयम् । ग्रासः षडङ्गुलस्तस्योः कुमुदं सप्तनिर्गमम् ॥ ९॥ प्रवेशमानं तावत् स्याद् यावद्दि( द्वि२)च्छेदपट्टिका । षडङ्गुलप्रवेशं च छेदपट्टस्य कारयेत् ॥ १०॥ समस्तैत्रं (?) विधातव्यं छेदस्य कणिकस्य च । निर्गमेण पुनस्तस्माद् द्वयङ्गुला कण्ठपट्टिका ॥ ११॥ अङ्गुलत्रितयं तस्याः पद्मपत्रीविनिर्गमः । (कपोतस्य ++++ तस्या?) स्यादङ्गुलत्रयम् ॥ १२॥ पट्टिकानां (सर्मसूत्रच्छेदानां च ७संष्ठिथः ?) । पादबन्धोऽयमाख्यातः श्रीबन्धः कथ्यतेऽधुना ॥ १३॥ ८पीठच्छेदस्य मानं तु सप्तविंशतिधा भजेत् । (१०तीडवर्तिचतुर्भाग ?) द्विभागा पद्मपत्रिका ॥ १४॥ कणिकां भागिकां कुर्यात् त्रिभागं कुमुदं ततः । छेदमेकं पदं ११विद्याद् भागं (मेडथरार्थं ?) तथा ॥ १५॥ मकरं भागमेकं च भागं मकरपट्टिकाम् । छेदमेकं पदं विद्यात् कण्ठमेकं पदं तथा ॥ १६॥ पट्टिकां भागमेकं च वेदी१२ भागं ततः परा१३ । छेदमेकपढं कुर्यात् ततः कण्ठं द्विभागिकम् ॥ १७॥ १ द. द्वि । २ द. स्य । ३ द. सू°। ४ द. माः । ५ द. अंगुलकपोतस्य । ६ द. मं । ७ द. संमष्ठिथः । ८ द. पीठस्थ्यो यस्य मा° । ९ द. ता । १० द. पी । ११ द. र्वि । १२ द. दीं । १३ द. रं ।