भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 531, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 531

४६८ समराङ्गणसूत्रधारे पट्टिका भागमेकं च +++ पद्मपत्रिका । कपोतं नालिकायुक्तं विदधीत पदत्रयम् ॥ १८ ॥ छेदं च भागिकं कुर्यात् पीठे^२ श्रीबन्धनामनि । श्रीबन्धोऽयं समाख्यातो वेदीबन्धोऽथ कथ्यते ॥ १९ ॥ भागैरेकान्नविंशत्या (^४पीठस्याच्छोतिं ?) भजेत् । नीडवर्तिश्चतुर्भागा ^५द्विभागा पद्मपत्रिका ॥ २० ॥ कणिकां पदिकां ^६विद्यात् कुमुदं त्रिपदं तथा । कुर्वीत पदिकं छेदं तदुन्मेणदँस्तरं (?) बुधः ॥ २१ ॥ भागेनैकेन मकरं तथा मकरपट्टिकाम् । छेदं पदं ^८++कण्ठं भागिका^९ पद्मपत्रिका^१० ॥ २२ ॥ (कर्तव्या ?) भागिकीं^११ कुर्यात् कुमुदं च त्रिभागिकम् । छेदमेकपदं ^१२विद्यात् ततः कण्ठं द्विभागिकम् ॥ २३ ॥ पट्टिकां भागिकीं कुर्याद् भागिकीं ^१३++पट्टिकाम् । द्विभागो रसनापट्टाइछादस्तु पट्टिको भवेत् (?) ॥ २४ ॥ इति प्रतिक्रमं पीठं खुरबन्धोऽथुनोच्यते । वि(भजेद्) भागविंशत्या पीठोच्छ्रायं विचक्षणः ॥ २५ । नीरवर्तिश्चतुर्भागा +++ पद्मपत्रिका । कणिका भागमेकं स्याद् द्विभागं कुमुदं ततः ॥ २६ ॥ (^१५भागं मेदथाक्षेपो ?) मकरो भागिकस्तथा । भागमेकं विधातव्या ततो मकरपट्टिका ॥ २७ ॥ (^१६छेदा मकरपदं ?) कुर्यात् कण्ठमेकं पदं ततः । पट्टिकां भागिकीं विद्याद् भागिकी पद्मपत्रिका ॥ २८ ॥ कपोतं त्रिपदं कुर्यात् ततो नासिकया सह । छेदश्च भागिकः कार्यः खुरबन्धोऽयमीरितः ॥ २९ ॥ १ द. पद्मपत्रं° । २ द. ठं । ३ द नु । ४ मुद्रित पुस्तके 'पीठकस्योच्छ्रितिम्' इति स्यात् ; द. पीठस्यास्योच्छ्रतं । ५ द. विभा° । ६ द. र्दि । ७ द. ण्ड । ८ द. पदं । ९ द. कीं । १० द. कां । ११ द. वां । १२ द. र्दि । १३ द. पद्म । १४ द. स्तु । १५ द. भागामडधरोक्षेपो । १६ मु. पु. 'छेदमेकं पदं' इति स्यात् ।