भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 532, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 532

पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः । ४६९ पीठंपञ्चकमित्युक्तं सूत्रितं पूर्वमेव यत् । पीठादूर्ध्वं तु विज्ञेया प्राज्ञैः खुरवरण्डिका ॥ ३० ॥ सन्ति चान्यानि पीठानि लक्ष्मभेद़ादनेकधा । तेषां मध्ये प्रकृष्टत्वादेतत् पञ्चकमीरितम् ॥ ३१ ॥ प्रासादानथ वक्ष्यामस्तलच्छन्दादनन्तरम् । तत्र पद्मो महापद्मो वर्धमानस्तथापरः ॥ ३२ ॥ स्वस्तिकः सर्वतोभद्रः प्रासादाः पञ्च कीर्तिताः । चतुरश्रीकृते क्षेत्रे कर्णसूत्रं प्रसारयेत् ॥ ३३ ॥ कर्णस्यार्धं ततः कृत्वा (गर्भाद्वह् ? ) बहिर्नयेत् । तदग्रयोः सूत्रपातात् स्यादन्यच्चतुरश्रकम् ॥ ३४ ॥ ⁴कूटं कुर्याद् द्विभागेन ( संमस्तत्राद् ? ) विचक्षणः । सूकराननसंस्थानं कुर्वीत सलिलान्तरम् ॥ ३५ ॥ एवं सर्वेषु कूटेसु सलिलान्तरमिष्यते । यदायतं भवेत् सूत्रं चतुर्भागविभाजिते ॥ ३६ ॥ गर्भो द्विभागिकस्तेन भागिका⁶ भित्तिरुच्यते । गर्भकर्णार्धमादाय कोणास्तं( न्तं )लाञ्छयेत् पुनः ॥ ३७ ॥ अष्टसु ++ मध्ये स्यादेवं ++++ बहिः । एवं पद्मतलच्छन्दो विधातव्यो विचक्षणैः ॥ ३८ ॥ महापद्मतलच्छन्दमधुना सम्प्रचक्ष्महे । पूर्वं यः कीर्तितश्छन्दः ( सम्पाता सूत्रयेत्कृताः ? ) ॥ ३९ ॥ ¹⁰तेषु संपादयेद् ++++ दिग्विदिगन्तरे । कर्णार्धं दापयेत् तत्र बाह्यभागविनिर्मिता( र्गतम् ) ॥ ४० ॥ ( ¹²ण्डीग्रेय्यो ? )दिशोर्मध्ये लाञ्छनं यद् व्यवस्थितम् । नैर्ऋतीयाम्ययोर्मध्ये तस्मात् तन्त्र¹³ प्रसारयेत् ॥ ४१ ॥

१ द. पीठ कंचपंचक° । २ द. चि । ३ द. श्य । ४ द. च । ५ द. कूटं कुर्याद्ध्यर्धेगेन सम- सूत्राद्धिं । ६ मुद्रित पुस्तके ‘समसूत्रादि’ति स्यात् । ७ द. त्रं । ८ द. की । ९ द. मध्यमे । १० द. तेषु संपातये द्वे खे द्वे द्वेग्विदिमं ( गं )तरे । ११ द. तां । १२ द. ऐंद्राम्रेयो दिशोमंध्ये; मुद्रित पुस्तके ‘ऐन्द्र्याग्नेय्यो’ इति पाठः स्यात् । १३ द. सूत्रं ।