समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः । ४६९ पीठंपञ्चकमित्युक्तं सूत्रितं पूर्वमेव यत् । पीठादूर्ध्वं तु विज्ञेया प्राज्ञैः खुरवरण्डिका ॥ ३० ॥ सन्ति चान्यानि पीठानि लक्ष्मभेद़ादनेकधा । तेषां मध्ये प्रकृष्टत्वादेतत् पञ्चकमीरितम् ॥ ३१ ॥ प्रासादानथ वक्ष्यामस्तलच्छन्दादनन्तरम् । तत्र पद्मो महापद्मो वर्धमानस्तथापरः ॥ ३२ ॥ स्वस्तिकः सर्वतोभद्रः प्रासादाः पञ्च कीर्तिताः । चतुरश्रीकृते क्षेत्रे कर्णसूत्रं प्रसारयेत् ॥ ३३ ॥ कर्णस्यार्धं ततः कृत्वा (गर्भाद्वह् ? ) बहिर्नयेत् । तदग्रयोः सूत्रपातात् स्यादन्यच्चतुरश्रकम् ॥ ३४ ॥ ⁴कूटं कुर्याद् द्विभागेन ( संमस्तत्राद् ? ) विचक्षणः । सूकराननसंस्थानं कुर्वीत सलिलान्तरम् ॥ ३५ ॥ एवं सर्वेषु कूटेसु सलिलान्तरमिष्यते । यदायतं भवेत् सूत्रं चतुर्भागविभाजिते ॥ ३६ ॥ गर्भो द्विभागिकस्तेन भागिका⁶ भित्तिरुच्यते । गर्भकर्णार्धमादाय कोणास्तं( न्तं )लाञ्छयेत् पुनः ॥ ३७ ॥ अष्टसु ++ मध्ये स्यादेवं ++++ बहिः । एवं पद्मतलच्छन्दो विधातव्यो विचक्षणैः ॥ ३८ ॥ महापद्मतलच्छन्दमधुना सम्प्रचक्ष्महे । पूर्वं यः कीर्तितश्छन्दः ( सम्पाता सूत्रयेत्कृताः ? ) ॥ ३९ ॥ ¹⁰तेषु संपादयेद् ++++ दिग्विदिगन्तरे । कर्णार्धं दापयेत् तत्र बाह्यभागविनिर्मिता( र्गतम् ) ॥ ४० ॥ ( ¹²ण्डीग्रेय्यो ? )दिशोर्मध्ये लाञ्छनं यद् व्यवस्थितम् । नैर्ऋतीयाम्ययोर्मध्ये तस्मात् तन्त्र¹³ प्रसारयेत् ॥ ४१ ॥
१ द. पीठ कंचपंचक° । २ द. चि । ३ द. श्य । ४ द. च । ५ द. कूटं कुर्याद्ध्यर्धेगेन सम- सूत्राद्धिं । ६ मुद्रित पुस्तके ‘समसूत्रादि’ति स्यात् । ७ द. त्रं । ८ द. की । ९ द. मध्यमे । १० द. तेषु संपातये द्वे खे द्वे द्वेग्विदिमं ( गं )तरे । ११ द. तां । १२ द. ऐंद्राम्रेयो दिशोमंध्ये; मुद्रित पुस्तके ‘ऐन्द्र्याग्नेय्यो’ इति पाठः स्यात् । १३ द. सूत्रं ।
४७० समराङ्गणसूत्रधारे नैरृतीयाम्ययोर्मध्याद् वाय्वम्बुपदिगन्तरौ (रे) । वाय्वम्बुपदिशोर्मध्यादीशसोमदिगन्तरे१ ॥ ४२ ॥ तृतीयां +++++ कूटस्य जलान्तरम् । कूटयोरुभयोर्मध्ये सूक२राननसन्निभम् ॥ ४३ ॥ महापद्मतलच्छन्दः प्रोक्तोऽयं राजपूजितः । इदानीं वर्धमानस्य तलच्छन्दोऽभिधीयते ॥ ४४ ॥ चतुरश्रं ५भजेत् पञ्चदशधा क्षेत्रमादितः । कूटं३ द्विभागिकं +++++ सलिलान्तरम् ॥ ४५ ॥ पञ्जरं सार्ध ६+++ भागिकं सलिलान्तरम् । चतुर्भागा७ भवेच्छाला (द्विविद्ध्या र्व पञ्जरे मः ?) ॥ ४६ ॥ अर्धभागं प्रवेशस्तु शालास(स्व)८त्रं जलाध(ध्व)नः । अष्टाङ्गुलविनिष्क्रान्ते बाह्यतः शुभदर्शने ॥ ४७ ॥ भागपादं प्रवेशः स्यात् पञ्जरान्तज(र्ज)लाध्वै११नः । अर्धभागं प्रवेशस्तु ++++++++ ॥ ४८ ॥ जलान्तरं तृतीयं च कर्तव्यं भागसम्मितम् । अनन्तरं प्रकुर्वीत पञ्जरं सार्धभागिकम् ॥ ४९ ॥ १२भागमेकं तलच्छन्दो यथौवदमभिधीयते१३ । चतुरश्रं समं क्षेत्रमष्टाविंशतिधा भजेत् ॥ ५० ॥ कुर्यात् कूटं चतुर्भागं +++ सलिलान्तरम् । त्रिभागं पञ्जरं तद्वद् द्विभागं सलिलान्तरम् ॥ ५१ ॥ शालां षड्भागिकीं कुर्याज्जलमार्गं द्विभागिकम् । त्रिभागं पञ्जरं भूयश्चन्द्रशालाविभूषितम् ॥ ५२ ॥ पुनर्द्विभागिकं कुर्याच्चतुर्थं सलिलान्तरम् । विदधीत चतुर्भागं रथकं १४चै सुशोभनम् ॥ ५३ ॥ १ द. इतःपरं 'ईशशो मध्यादिन्द्रवह्निदिगंतरे ।' इत्यधिक पाठः । २ द. को । ३ द. भां । ४ द. त्य । ५ द. क्षेत्रं । ६ द. भागं च । ७ द. गां । ८ द. श्व । ९ द. दे । १० द. न्न । ११ द. धनः । १२ वर्धमानतलच्छन्दलक्षणापरिसमाप्तावेव छन्दान्तरस्य लक्षणोपक्रमादादर्श ग्रन्थपातोऽनुमीयते । मुद्रित पुस्तके पाठः । १३ द. दा । १४ द. वस्तु ।
पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः । ४७१ एवं दिक्षु समस्तासु समैर्भागैः प्रकल्पयेत् । चतुर्भागे ततः क्षेत्रे गर्भं कुर्याद् द्विभागिकम् ॥ ५४ ॥ स्वस्तिके¹ वर्धमाने च भागिक्यो भित्तयः स्मृताः । स्वस्तिकोऽयं तलच्छन्दः कथितोऽतिमनोहरः ॥ ५५ ॥ इदानीं सर्वतोभद्रतलच्छन्दोऽभिधीयते । चतुरश्रीकृते क्षेत्रे गर्भं कुर्याद् द्विभागिकँम् ॥ ५६ ॥ कुर्यात् त्रिभागिकं कूटं जलमार्गं द्विभागिकम् । त्रिभागिकं ततः कूटं तोयमार्गं द्विभागिकम् ॥ ५७ ॥ शालाष्टभागिकी कुर्याज्जलव(र्त्म)द्विभागिकम् । भूयस्त्रिभागिकं कूटं द्विभागं सलिलान्तरम् ॥ ५८ ॥ त्रिभागिकी³ च रथिका⁴ भवेद् दिक्षु (चतुर्दश?) । चतुरश्रीकृते(तं)क्षेत्रे(त्रम्) अष्टाविंशतिधा भजेत्⁷ ॥ ५९ ॥ कुर्यात् त्रिभागिकं कूटं चतुर्धा प्रविभाजिते । भागिक्यो भित्तयः कार्यास्तथा गर्भो द्विभागिकः ॥ ६० ॥ इत्येष सर्वतोभद्रस्तलच्छन्दो विधीयते । एते प्रोक्ता निरन्धाराः सान्धारांस्तु प्रचक्ष्महे ॥ ६१ ॥ चतुरश्रीकृतं क्षेत्रं भजेद् द्वादशभिः पदैः । चतुर्भागो भवेद् गर्भो भागिक्यो भित्तयः स्मृताः ॥ ६२ ॥ भागिकान्धारिका तद्वद् द्विभागा बाह्यभित्तयः । एवमेते तलच्छन्दाः पञ्चार्याः परिकीर्तिताः ॥ ६३ ॥ पीठान्युक्तान्येवमेतानि पञ्च प्रासादानां नामभिर्लक्षणैश्च । पञ्च प्रोक्ता ये तलच्छन्दभेदा- स्तैर्विज्ञातैः पूज्यतामेति लोके ॥ ६४ ॥ इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे पीठपञ्चकाध्यायो नामैकषष्टितमोऽध्यायः ॥ १ द. 'केर्वे°। २ द. मू। ३ द. कां। ४ द. कीं। ५ द. कां। ६ द. र्दिशं। ७ द. भवेत्। ८ द. रा। ९ द. क्ष्म्यहे। १० द. याः।
४७४ समराङ्गणसूत्रधारे
कूटं तदूर्ध्वं कुर्वीत विचित्रं नासिकान्वितम् । छेदान्तं पूर्वमानेन सर्वमेतद् विधीयते ॥ २४ ॥ तस्योपरि पुनर्जङ्घा सर्वाभरणभूषिता । ततो मालाथ (ल) शुनं तोरणं कलशस्ततः ॥ २५ ॥ वीरगण्डस्ततो (थो) च्छालं पत्रकं वीरगण्डकः । हीरकं पट्टिका तद्वद्वसन्तपट्टिका पुनः ॥ २६ ॥ कपोतच्छेदमेहाश्च (मँकरोऽस्य ?) च पट्टिका । छेदः करपट्टिका च (?) वेदीच्छेदोऽथ कण्ठकः ॥ २७ ॥ पट्टिका पद्मपूर्वा च कर्तव्या पट्टिका ++। ततश्छेदो विधातव्यः सर्वैराभरणैर्युतः ॥ २८ ॥ ततश्छित्त्वा तथा कार्यं यथा शोभा प्रजायते । पुनः कण्ठ्यं(?) प्रदातव्यः पट्टिका पद्मपट्टिका ॥ २९ ॥ ततः कण्ठं विधातव्यं चन्द्रमालाविभूषितम् (?)। प्रकुर्वीत ततःच्छेदमपरिष्टाद् विचक्षणः ॥ ३० ॥ कण्ठपट्टिकया युक्तं तदूर्ध्वं कण्ठपट्टिकाम् । सप्ताङ्गुलानि कर्तव्यस्ततो घण्टाविनिर्गमः ॥ ३१ ॥ भागार्धं विस्तृतैस्तस्या विस्तारार्धं समुच्छ्रितिः । एवं द्विभूमिकं प्राज्ञः प्रासादं परिकल्पयेत् ॥ ३२ ॥ द्विभूमिकः ॥ त्रिभूमिकस्तृतीयोऽथ प्रासादोऽस्माभिरुच्यते । तस्यैकादश विस्तारो हस्तः पञ्चदशोच्छ्रयः ॥ ३३ ॥ चतुर्दशाङ्गुलान्येषां भवेदस्याधिकापि(नि) च । +++भूमिकस्यैतत् कर्णमानमसंशयम् ॥ ३४ ॥ पीठं द्विहस्तं कुर्वीत तत्रादौ पूर्वसूचितम् । जङ्घां त्रिभागिकोत्सेधां कूटोच्छ्रायं तु भागिकम् ॥ ३५ ॥
१ द. भ । २ द. ंदं मेहांश्च । ३ मुद्रित पुस्तके 'मकराख्या' इति स्यात् । ४ द. भूमिकः । ५ द. रा । ६ द. च्छिृत्वाः ।
द्राविडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः । ४७५ भवेजङ्घा तृतीया च सार्धभागद्वयं ततः । भागं च कूटप्रसरश्चन्द्रशालाविभूषितः ॥ ३६ ॥ पुनस्तृतीया जङ्घा (स्याद् भाग) द्वय (स) मुच्छ्रिता । नतश्च (शो ?) कू (ट) प्रस्तारो भागिको भूषणान्वितः ॥ ३७॥ भागं स्याद् वेदिबन्धः + सगुणद्वारकण्ठकः । चतुर्द (र्दि) शमसौ कार्यों भूषायुक्तो यथोचितम् ॥ ३८ ॥ घण्टाच्छेदस्तु भागौ३ (द्वौ) द्वयङ्गुलद्वयसंयुतौ । एकादशस्तरा४ (कुरु ?) स्तस्योपरि विधीयते ॥ ३९ ॥ इदानीं प्रविभागोऽस्य पीठादूर्ध्वं विधीयते । हस्तमेकं भवेजङ्घा (यद्येपि च ?) तया समा ॥ ४० ॥ माला तु द्विस्तरा प्रोक्ता लशुनं भागिकं ततः । भरणं स्तरमेकं स्यात् कलशोऽपि च तत्समः६ ॥ ४१ ॥ वीरगण्डसमायुक्तमुच्छालं द्विस्तरं ततः । ततस्तरं वीरगण्डो ७++++++++ ॥ ४२ ॥ हीरकं द्विस्तरं विद्यात् स (स्त) रं वासन्तपट्टिका । कपोतं८ नासिकायुक्तं त्रिस्तरं कारयेत् ततः ॥ ४३ ॥ छेदं प्रस्तप्रमाणं च मेढं च तत्सम्मितम् (?) । स्तरं कुर्वीत मकरं तदर्धेनास्य पट्टिका९ ॥ ४४ ॥ छेदं तथैव कुर्वीत कण्ठमेकंस्तरं ततः । पट्टिका वेदिका चैव स्तरमेकं विधीयते ॥ ४५ ॥ छेदमर्धस्तरं ११विद्यात् कण्ठं सार्धस्तरं ततः । पट्टिका स्यात् स्तरं पद्म स्तरमेकं ततो भवेत् ॥ ४६ ॥ शेषे१२ च सुन्दरं कण्ठं विधातव्यं(?) विचक्षणैः । अनन्तरं द्वितीया च जङ्घा कार्या नवस्तरा ॥ ४७ ॥ १ द. द्वि । २ द. श । ३ द. ˚ग द्वयङ्गुल˚ । ४ द. रः । ५ द. टा । ६ द. मम् । ७ द. हीरकं द्विस्तरं ततः । पट्टसूरस्ततः कार्यस्तरमेकं च पट्टिका । वसन्त द्विस्तरं विद्यात्सरं वासन्तपट्टिकां । ८ द. ता । ९ द. कां । १० द. कं । ११ द. विं । १२ द. षं ।
४७६ समराङ्गणसूत्रधारे मध्ये च सा प्रकर्तव्या तदूर्ध्वं तां विभाजयेत् । ततस्तरं भवेच्छाला स्तरार्धं लशुनं ततः ॥ ४८ ॥ तथैव भरणं ज्ञेयं पूर्वनिर्दिष्टलक्षणम् । वीरगण्डेन सहितः कलशोऽपि तथा भवेत् ॥ ४९ ॥ पद्मपत्रिकया युक्तं स्तरमुच्छालकं विदुः । वीरगण्डं स्तरं विद्यादर्धभागं च हीरकम् ॥ ५० ॥ पट्टं तथैव कुर्वीत स्तरस्यार्धेन पट्टिका । वसन्तः स्तरमेकं स्याद् स्तरं वासन्तपट्टिका ॥ ५१ ॥ कपोतं त्रिस्तरं कुर्यान्नासिकासहितं बुधः । छेदमर्धस्तरं विद्यान्मेढं तत्तुल्यमेव च ॥ ५२ ॥ मकरं स्तरमेकं च भागार्धं पट्टिकां ततः । ³भागमेकं भवेच्छेदः स्तरं कण्ठस्तदूर्ध्वतः ॥ ५३ ॥ पट्टिका वेदिका चैव स्तरमेकं विधीयते । छेदं भागार्थिकं कुर्यात् कण्ठकं सार्धभागिकम् ॥ ५४ ॥ भागेन पट्टिकां कुर्यात् तथा कमलपत्रिकाम् । कूटं ततः परं कुर्यान्नासिका च (सु) विभूषितम् ॥ ५५ ॥ तृतीयजङ्घामद्वा (तद्वत्) स्याच्चतुर्भिः कल्पिता स्तरैः । स्तरमेकं भवेन्माला स्तरं च लशुनं विदुः ॥ ५६ ॥ भरणं स्तरमेकं च कुम्भमेकस्तरं तथा । वीरगण्डसमोपेतमुच्छालं स्यात् तदूर्ध्वतः ॥ ५७ ॥ स्तरमेकं प्रकुर्वीत वीरगण्डसमु(च्छ्रि)तिम् । ततश्च हीरकं कुर्याद् भागेनैकेन बुद्धिमान् ॥ ५८ ॥ सार्धभागेन पट्टिः⁴ स्यात् पट्टिकार्थं स्तरं तथा । स्तरमेकं वसन्तं स्यात् स्तरं वासन्तपट्टिका ॥ ५९ ॥ कपोतो द्विस्तरश्छेदोऽर्धस्तरो मेण्ढकः स्तरः । भागिको मकरः कार्यः पट्टिका चार्धभागिकों ॥ ६० ॥
१ द. ण्ड । २ द. कां । ३ द. ‘भागमेकं......सार्धभागिकम्’ इति पाठः नास्ति । ४ द. ट्टः । ५ द. की ।
द्राविडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः । ४७७ ('मेदो ?)ऽर्धभागिको भागमेकं कण्ठः प्रकीर्तितः । पट्टिकावेदिका( भेदा ? )स्त्रयोऽप्यर्धस्तरं पृथक् ॥ ६१ ॥ कण्ठश्चार्धस्तरः कार्यः पीठिका चार्थभागिका । अर्धभागेन कर्तव्या तदूर्ध्वं पद्मपत्रिका ॥ ६२ ॥ विचित्रलक्षणोपेतं ततः कूटं विधीयते । स्तरमेकं भवेच्छेदः स्यात् कण्ठोऽप्येवमेव ( च ?) हि ॥ ६३ ॥ पट्टिका स्तरमेकं स्यात् ततो वेदी स्तरद्वयम् । छेदः स्तरं भवेद् भूयः कण्ठः स्याद् द्विस्तरं³ ततः ॥ ६४ ॥ कर्तव्ये स्तरमेकैकं पट्टिका पद्मपत्रिका४ । घण्टा ततःक( प )रं कार्या मानतो विंशतिस्तरा ॥ ६५ ॥ एकादशस्तरः कुम्भः सर्वेषां सर्वतो भवेत् । त्रिभूमिकोऽयमाख्यातश्चतुर्भूमिरथोच्यते ॥ ६६ ॥ त्रिभूमिकः ॥ हस्तान् पञ्चदश क्षेत्रं ५विस्तारा( त्तु )प्रकल्पयेत् । उच्छ्रायेण६ तु हस्तानां स्यात् ( पादैकविंशतिः ? )७ ॥ ६७ ॥ द्विहस्तं कारयेत् पीठं जङ्घां हस्तत्रयोच्छ्रिताम् । सार्धहस्तं भवेत् कूटं सर्वालङ्कारभूषितम् ॥ ६८ ॥ द्वितीयजङ्घा कर्तव्या पादहीनं करत्रयम् । सपादहस्तं कुर्वीत कूटमन्यत् तदूर्ध्वतः ॥ ६९ ॥ तृतीयजङ्घा कर्तव्या सार्धं हस्तद्वयं ततः । ततश्च कूटप्रस्तारो हस्तमेकं विधीयते ॥ ७० ॥ ९जङ्घा चतुर्थी कर्तव्या सार्धहस्तद्वयं ततः । ततश्च कूटप्रस्तारो हस्तमेकं विधीयते ॥ ७१ ॥ जङ्घा चतुर्थी कर्तव्या सपादद्विकरोच्छ्रितां८ । हस्तं च कूटप्रस्तारो वेदीबन्धस्तथाविधः ॥ ७२ ॥
१ द. 'मेदो ?......चार्धभागिका' इति पाठः नास्ति । २ द. त्रं । ३ द. रस्ततः । ४ द. के । ५ द. विस्तारेण प्र° । ६ द. च्छ्र । ७ मुद्रित पुस्तके 'पादोनैकविंशतिः' इति स्यात् । ८ द. त । ९ द. 'जङ्घा......विधीयते ॥' इति पाठः नास्ति । १० द. ताः ।
४७८ समराङ्गणसूत्रधारे गर्भार्धविस्तृता घण्टा कार्या हस्तत्रयोच्छ्रिता । चतुर्दशस्तरः कुम्भः सर्वेषामुपरि स्थितः ॥ ७३ ॥ सूचिका(ता)हस्तसङ्ख्यैषा विभागः कथ्यतेऽधुना । पीठं हस्तद्वयोत्सेधं जङ्घालङ्कृतिरुच्यते ॥ ७४ ॥ दशभागो १भवेदेकमुच्छालं द्विस्तरं ततः । वीरगण्डं स्तरं विद्याद् द्विस्तरं हीरकं भवेत् ॥ ७५ ॥ पट्टस्तथैव विज्ञेयो(त्सेधकी ?)पट्टिका ततः । वसन्तं द्विस्तरं ++++ वासन्तपट्टिका ॥ ७६ ॥ कपोतस्त्रिस्तरः कार्यों भागं छेदो विधीयते । मेढं स्तरं प्रकुर्वीत २स्तरं कण्ठस्य पट्टिका ॥ ७७ ॥ ३कुर्वीत भागिकीं देवा(वेदीं)ततच्छे(छे)दे च भागिकम् । पुनः कण्ठं प्रकुर्वीत द्विस्तरं पट्टिकां ततः ॥ ७८ ॥ स्यात् पद्मपत्रिकाय्येवं घण्टा पञ्चस्तरा ततः । विचित्रं लक्षणोपेतं ततः कुम्भं निवेशयेत् ॥ ७९ ॥ जङ्घास्तम्भं द्वितीया(याँ) विदध्यादष्टभागिकम् । मालां ४+ द्विस्तरं कुर्याद् भागिकं ५त(ल)शुनं ततः ॥ ८० ॥ भर(णं) स्तरमेकं च कलशं तत्प्रमाणतः । वीरगण्डेन संयुक्तं (७तावांश्रो ?)च्छालकं भवेत् ॥ ८१ ॥ द्विस्तरं तन्तु विज्ञेयं वीरगण्डः स्तरं भवेत् । हीरकं द्विस्तरं विद्यात् पद्मं८ चैव तथाविधम् ॥ ८२ ॥ पट्टिका स्तरमेकं स्याद् वसन्तं द्विस्तरं ततः । वसन्तपट्टिकां भागं कपोतं त्रिस्तरोच्छ्रितम् ॥ ८३ ॥ कुर्वीत भागिकं (९भेदं ?) स्तरमेकं च मेढकम् । मकरं स्तरमेकं च तथा मकरपट्टिकाम् ॥ ८४ ॥ १ द. इतः पूर्वं 'भवेत् स्तंभो मालाबुद्धितस्तरा ततः । एकस्तरंस्याल्लशुनं भरणं सूरमेव च ॥ कुंभस्तरं' इति अधिकः पाठः । २ द. इतः पूर्वं 'मकरं च तथाविधि ॥ पट्टिकां स्तरमेकं च छेदं कुर्वीत भागिकं । कंठं तथैव कुर्वीत' इति अधिकः पाठः । ३ द. कुर्वीत भागिकी देवी संध्यां ततः छेदं च भागिकां । ४ द. या । ५ द. ला तु । ६ द. ते । ७ द. ततो । ८ द. टं । ९ द. छेद ।
द्रविडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः । ४७९ भेदः स्तरं भवेत् कण्ठः स्तरं भागं च पट्टिका । वेदिका स्तरमेकं च च्छेदमर्धेन कारयेत् ॥ ८५ ॥ कण्ठं सार्धस्तरं कुर्यात् स्तरमेकं च पट्टिकाम् । आभा(अम्भो)जपत्रिकां भागं कुर्याद् घण्टां चतुःस्तराम् ॥ ८६ ॥ प्राग्ग्रीवभूषिता सा स्यात् कुम्भं कुर्यात् तदूर्ध्वतः । जङ्घास्तम्भस्तृतीयायां सप्तांशश्चतुर^१+कः ॥ ८७ ॥ ततो मालाथ लशुनं भरणं कुम्भकाण्डकौ । उच्छांलं गण्डको हीरं प्रत्येकं स्युः स्तरं स्तरम् ॥ ८८ ॥ पैद्मं सार्धस्तरं विद्याद् भागेऽर्धे पट्टिकां तथा । भागमेकं वसन्तः स्याद् भागं वासन्तपट्टिका ॥ ८९ ॥ कपोतं त्रिस्तरं कुर्याच्छेदमेकस्तरं ततः । ततश्च मे(ढैंकं^३ मरं ?) विदधीत स्तरं स्तरम् ॥ ९० ॥ तत्पट्टिका तु भागार्धं (४भेदं ?) भागार्धमेव च । कण्ठो वेदि पट्टिका (च) त्रीण्येतानि स्तरं स्तरम् ॥ ९१ ॥ स्तरस्यार्धं भवेच्छेदः कण्ठः सार्धस्तरं ततः । भागार्धं पट्टिका कार्या तावती पद्मपत्रिका ॥ ९२ ॥ चतुर्भागा भवेद् घण्टा गुणद्वारसमन्विता । द्विस्तरं कारयेत् कुम्भं घण्टायाः स्थितमूर्ध्वतः ॥ ९३ ॥ एवं भूमिस्तृतीयेषा चतुर्थी कथ्यतेऽधुना । कर्तव्या(पट्टरा ?)जङ्घा महास्तम्भसमन्विता ॥ ९४ ॥ मालाथ लशुनं तद्वद् भरणं कुम्भ एव च । उच्छांलं गण्डकं हीरमिति प्रा^६+पृथक् पृथक् ॥ ९५ ॥ सार्धभागं भवेत् पादः(पट्टः) पट्टिकार्धस्तरं ततः । वसन्तं (स्तै)रमेकं स्यात् तत्संज्ञः(?) पट्टिका स्तरमं ॥ ९६ ॥ कपोतं द्विस्तरं विद्याच्छेदं चार्धस्तरं ततः । मेढं तथैव कुर्वीत मकरं च स्तरं बुधः ॥ ९७ ॥ १ द. र्थो । २ द. पट्टस्यार्द्धं । ३ मु. पु. ‘ढं मकरम्’ इति स्यात् । ४ द. छे । ५ द. मे । ६ द. क् । ७ द. ह । ८ मु. पु. ‘तत्संज्ञा’ इति स्यात् । ९ द. रा ।
पट्टिकां मकराख्यां च छेदमेकस्तरं विदुः । स्तरमेकं भवेत् कण्ठः स्तरस्यार्धं च पट्टिका ॥ ९८ ॥ तथैव वेदिकां कुर्याच्छेद मर्धस्तरं पुनः । सार्धभागं प्रकुर्वीत कण्ठदेशं विचक्षणः ॥ ९९ ॥ पट्टिका (मंध ?)संज्ञा तु स्तरमेकं विधीयते । घण्टा स्तरद्वयं कार्या गुणद्वारविभूषिता ॥ १०० ॥ कुम्भं विदध्यादुपरि द्विस्तरं पङ्कजाननम् । भागमेकं भवेच्छेदस्ततः कण्ठः स्तरद्वयम् ॥ १०१ ॥ पट्टिका स्तरमेकं तु वेदिका तु स्तरावुभौ । पुनश्छेदो भवेद् भागं + + कण्ठो विधीयते ॥ १०२ ॥ पट्टिका स्तरमेकं तु तदूर्ध्वम्भोजपत्रिका । स्तराणां विंशतिर्घण्टा भवेद् गर्भार्धविस्तृता ॥ १०३ ॥ चन्द्रशालाश्च कर्तव्या दर्शनीयाश्चतुर्दिशम् । एवं पद्मे महापद्मे स्वस्तिके वर्धमानके ॥ १०४ ॥ तथैव सर्वतोभद्रे कुर्याद् घण्टामिमां बुधः । कुम्भं तु पञ्चदशभिः स्तरैः कार्या(कुर्यात्) समुन्ननम् ॥ १०५ ॥ स्याच्चतुर्भूमिको ह्येवं तलच्छन्दस्तु कामतः । चतुर्भूमिकाः ॥ पञ्चभौममथ ब्रूमः प्रासादं राजपोजितम् ॥ १०६ ॥ विस्तारेण विधातव्यः स हस्त्व(स्ता)नैकविंशतिम् । विभाजयेत् तथोत्सेधं पादोनँस्त्रिशतं करान् ॥ १०७ ॥ पीठं भागद्वयं सार्धं जङ्घा (साराग्ना ?)त्रिभागिकी । कुर्वीत कूटप्रस्तारं ३ सार्धहस्तं च बुद्धिमान् ॥ १०८ ॥ जङ्घा द्वितीया कर्तव्या हस्तत्रितयमुच्छ्रिता । भूयोऽपि कूटप्रस्तारं सार्धहस्तं प्रकल्पयेत् ॥ १०९ ॥ १ मु. पु. 'पद्म' इति स्यात् । २ द. का । ३ द. स्ता । ४ द. नं । ५ द. र ।
द्राविडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः । ४८१ जङ्घा तृतीया कर्तव्या पादहीनं करत्रयम् । सार्धहस्तसमुत्सेधः कूटप्रस्तार इष्यते ॥ ११० ॥ चतुर्थभूमिजङ्घा च सार्धहस्तद्वयोच्छ्रिता । कूटप्रस्तारकं कुर्यात् पूर्वमानेन बुद्धिमान् ॥ १११ ॥ पञ्चम्यां भुवि कुर्वीत (जङ्घा सा?) हि करद्वयम् । कुर्वीत कूटप्रस्तारं तथा प्रागा(गु)दितो यथा ॥ ११२ ॥ कुर्याद्धस्तद्वयोत्सेधं कपोतमपि बुद्धिमान् । चतुर्भागसमुत्सेधा महागघण्टा विधीयते ॥ ११३ ॥ उपरिष्टाद् भवेत् तत्र³ प्रासादे पञ्चभूमिके । कुम्भं तदूर्ध्वं कुर्वीत स्तरान्नैकोनविंशतिम् ॥ ११४ ॥ संस्थानमेतत् कर्तव्यं सर्वतोभद्रसंज्ञकौ(के) । विभाजयेद् विशेषेण ततः स्तरविभाजनात् ॥ ११५ ॥ श्रीबन्धै पीठं कर्तव्यं सार्धहस्तद्वयोच्छ्रितम् । चतुर्दशस्तरं जङ्घा कर्तव्या स्तम्भसंयुता⁵ ॥ ११६ ॥ कर्तव्या द्विस्तरा माला लशुनं स्तरसम्मितम् । विदधीत स्तरं पद्मकुम्भगण्डसमन्वितम्(?) ॥ ११७ ॥ उच्छाालं द्विस्तरं कुर्या(६दिडो?) भागं विधीयते । द्विस्तरं हीरकं कार्यं पट्टांश्चैव तथाविधाः ॥ ११८ ॥ पट्टिको स्तरमेकं च वसन्तं द्विस्तरं ततः । वसन्तपट्टिका भागं कपोतं त्रिस्तरं ततः ॥ ११९ ॥ छेदमेकस्तरं कुर्यात् स्तरमात्रं च मेठंकम् । मकरं भागमेकं च भागं (वैराल?)पट्टिका(म्) ॥ १२० ॥ कुर्वीत भागिकं छेदं ततः कण्ठं च भागिकम् । कण्ठं छेदं ततः कण्ठं च ++++ भागिकम् ॥ १२१ ॥ १ द. प । २ द. सात्र । ३ द. न्न । ४ द. न्थं पीठ । ५ मु. पु. श्लोकान्ते 'पुनर्भूषणैः' इत्यधिकं पठ्यते । द. पुनर्भूषयितव्या सा सर्वैरपि विभूषणैः । इत्यधिकं पठ्यते । ६ द. द्रण्डो । ७ द. ट्ट । ८ द. धः । ९ द. कां । १० द. मेडुकं । ११ द. वा । १२ द. पुस्तके 'कण्ठं छेदं......भागिकम्' इत्ययं पाठः नास्ति । वा. ६१
४८२ समराङ्गणसूत्रधारे
( वोख्यापट्टिकां १? ) भागं वेदीं विचक्षणः । कुर्वीत भागिकं छेदं ततः कण्ठं स्तरद्वयम् ॥ १२२ ॥ स्तरं स्तरं प्रकुर्वीत पट्टिका पद्मपट्टिका । कूटप्रस्तारके कुर्यान्मकराननपञ्चकम् ॥ १२३ ॥ विचित्ररूपं सर्वासु दिक्षु सर्वगुणान्वितम् । ऊर्ध्वतः पट्टिकायास्तु घण्टा पञ्चस्तरा भवेत् ॥ १२४ ॥ नासिकाभिर्विचित्राभिरत्युदाराभिरन्विता । भद्राणि यस्य दृश्यन्ते कूटे कूटे समन्ततः ॥ १२५ ॥ स सर्वतोभद्र इति प्रासादः शिल्पिनां मतः । अवलम्बेन तदनु स्तम्भच्छेदं प्रकल्पयेत् ॥ १२६ ॥ स्तम्भत + + +^२ त्रेण समानं भुवि सूत्रयेत् । ^३मेढस्य निर्गमे^४ दद्यादङ्गुलैद्वितयं बुधः ॥ १२७॥ पञ्चाङ्गुलानि कर्तव्यस्ततो मकरनिर्गमः । सूत्रयेत् समसूत्रेण ततो मेढंक( स्य ? ) पट्टिका ॥ १२८ ॥ षडङ्गुलप्रवेशस्तु कार्यश्छेदस्य धीमता । यथा प्रवेशं + + + छेदस्यापि तथा भवेत् ॥ १२९ ॥ अङ्गुलद्वितयं कार्यः पट्टिकाया विनिर्गमः । विनिर्गमो वेदिकाया विधातव्यः षडङ्गुलः ॥ १३० ॥ अङ्गुलद्वयनिष्क्रान्ता विधेया कण्ठपट्टिका । पद्माख्यानिर्गमं कुर्यादङ्गुलत्रितयं ततः ॥ १३१ ॥ अङ्गुलानि ततः पञ्च योनि + निर्गमो भवेत् । घण्टा त्विह विधातव्या सर्वालङ्कारभूषिता ॥ १३२ ॥ ( ^५भेद ? )स्ततः स्याद् भवति भूमिका तस्य चोपरि । द्वितीया( य )भूमिकाजङ्घा ( सद्यः ? ) स्यादष्टभिः स्तरैः ॥ १३३ ॥ मालाद्यैर्लशुनं चैकं भरणं कलशस्तथा । यथा माला तथोच्छां वीरगण्डं स्तरं भवेत् ॥ १३४ ॥ १ द. कंठाख्यपट्टिका भागं । २ द. सू । ३ द. में । ४ द. में । ५ द. लं । ६ द. में । ७ द. रुंछं । ८ द. शः । ९ द. छे ।
द्राविडप्रासादलक्षणं नाम द्विष्टितमोऽध्यायः । ४८३ उच्छांलहीरके पट्टसमे कुर्याद् विचक्षणः । पट्टिका भागिकोत्सेधा वासन्तं ++ का तथा ॥ १३५ ॥ कपोतं त्रिस्तरोत्सेधं (१छेदो ?) सञ्यंशवर्जितम् । छेदस्यार्धे३ भवेन्मेढो मकरः पट्टिका तथा ॥ १३६ ॥ ततश्छेदं (च) कण्ठं च +++ पट्टिकां तथा । मालार्धेन प्रकुर्वीत च्छेदमेव ततो बुधैः ॥ १३७ ॥ पुनः कण्ठं प्रकुर्वीत हीरकेगो(ण) समन्वितम् । पट्टि(का) पद्मपूर्वा च त्रिभागो(गे)न कपोतके ॥ १३८॥ कुर्याच्चतुःस्तरां घण्टां द्वाभ्यां कुम्भं तथोपरि । पुनश्छेदो भवेद् भागं जङ्घां कुर्वीत सप्तभिः ॥ १३९ ॥ (६सीतमाठा ?) विधातव्या मालोच्चु(चो) द्विस्तरो भवेत् । लशुनं भरणं कुम्भो गण्डश्चेति स्तरं स्तरम् ॥ १४० ॥ गण्डद्विगुणमुच्छालं हीरपट्टस्तथैव च । पट्टिका स्तरमेकं स्याद् वसन्तपट्टिकास्य च ॥ १४१ ॥ ९पीठं द(श)गुणं कुर्याच्छेद्मेष्ठौ१० स्तरं स्तरम् । स्तरं कुर्वीत (११रौकर ?) (तथा) मकरपट्टिकाम् ॥ १४२॥ स्तरं छेदं च कण्ठं च पट्टिकां वेदिकां तथा । छेदं कुर्यात् पुनर्भागं कण्ठं तद्विगुणं ततः ॥ १४३॥ पट्टिका स्तरमेकं स्याद् वसन्तपट्टिका स्तरम् । चतुःस्तरा भवेद् घण्टा (१२प्राग्ग्राचकभूषिता ?) ॥ १४४ ॥ तस्योपरि पुनः कुम्भं घण्टार्धेनैव कारयेत् । छेदं१३ भागं विजानीयाज्जङ्घा सप्तांशिका स्मृता ॥ १४५ ॥ माला द्विभागिका कार्या भागिकं लशुनं१५ भवेत् । भरणं कुम्भकं गण्डं कुर्याल्लशुनवद् बुधः ॥ १४६ ॥ १ द. छं । २ द. तः । ३ द. र्धं । ४ द. में । ५ द. धैः । ६ द. सा तु माय । ७ द. माला बुद्धिस्तरा भवेत् । ८ द. न्तं । ९ द. कपोतं । १० द. ष्ठो । ११ द. राकारं । परन्तु मुद्रित पुस्तके तु 'मकरम्' इति स्यात् । १२ द. ष्टा प्राग्रीवकभूषितां; मुद्रित पुस्तके 'प्राग्रीवकविभूषिता' इति स्यात् । १३ द. द । १४ द. की । १५ द. ना ।
४८४ समराङ्गणसूत्रधारे उच्छांलं गण्डकं चैव हीरकान्तं च भागिकम् । सार्धं १ भागं भवेत् ++ २ पट्टिकार्धं ३ स्तरं भवेत् ॥ १४७ ॥ ४++ तं भागमेकं स्याद् वसन्तारुया च पट्टिका । कपोतं त्रिस्तरं कुर्यान्नासायुक्तं विचक्षणः ॥ १४८ ॥ छेदमंशेन कुर्वीत ( मैण्डमंशेन ? ) कारयेत् । मकरे पट्टिकां छेदं विदधीत स्तरं स्तरम् ॥ १४९ ॥ कुर्वीत भागिकं ( कण्ठं ) पट्टिकां ५ वेदिकामपि । भागं कुर्यात् पुनश्छेदं ६ ततः कण्ठं द्विभागिकम् ॥ १५० ॥ पट्टिका पद्मपूर्वा च विधातव्या स्तरं स्तरम् । कुर्वीत घण्टामुपरि चतुर्भागां विचक्षणः ॥ १५१ ॥ तदर्थमूर्ध्वतः कुम्भं छेदमर्धेन तस्य च । जङ्घा षड्भागिका कार्या ( मोन्ता गेन सुन कारयेन ? ) ॥ १५२ ॥ लशुनं भरणं कुम्भं गण्डमुच्छाल(वाड ?)के । हीरकं चेति कुर्वीत भागिकानि पृथक् पृथक् ॥ १५३ ॥ सार्धं १० भागं भवेत् पट्टः पट्टिकार्धस्तरोच्छ्रिता । वसन्तं भागमेकं स्याद् वसन्तारुया च पट्टिका ॥ १५४ ॥ कपोतं त्रिस्तरं कुर्याच्छेदं ( त्र्यंशोनशंसकां ११ म् ? ) । मण्डको मकरश्चैव पट्टिका छेदकण्ठकौ ॥ १५५ ॥ कण्ठं पट्टी च वेदी च छेदश्च स्यात् स्तरं स्तरम् । द्वितीयो द्विस्तरः कण्ठो भागिकी पट्टिका भवेत् ॥ १५६ ॥ तथैव पद्मसंज्ञा च स्यादुच्छ्रायेण पट्टिका । घण्टां कुर्याच्चतुर्भागां कुम्भमर्धेन तस्य च ॥ १५७ ॥ छेदमेकेन भागेन जङ्घाम १२ + र्धभागिकीम् । माला(मे)केन भागेन लशुनं सार्धभागिकम् ॥ १५८ ॥ १ द. र्धं । २ द. पट्टः । ३ द. र्ध । ४ द. '++तं......कारयेत्' इति पाठः नास्ति । ५ मुद्रित पुस्तके 'मेढमंशेन' इति स्यात् । ६ द. का । ७ द. द । ८ द. म्भ । ९ द. मातागे (रो) न कारयेत् । १० द. 'र्ध । ११ द. कं । १२ द. जंङ्गां मद्धों त्रिभागिकीं ।
द्रविडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः । ४८९ तथैव भरणं कुर्यात् कुम्भोच्छाले¹ स्तरं स्तरम् । हीरकं भागिकं कुर्यात् पद्मं² सार्धस्तरं ततः ॥ १५९ ॥ पट्टिकार्धस्तरं कार्या वसन्तं च स्तरं ततः । कपोतं³ द्विस्तरं कुर्याद् वेदीमर्धस्तरं तथा ॥ १६० ॥ यथा छेदस्तथा मण्डो मकरश्च विधीयते । पट्टिकार्धस्तरं कार्या छेदोऽप्यर्धस्तरं भवेत् ॥ १६१ ॥ भागं कण्ठः पट्टिका च वेदी कार्या द्विभागिकी । छेदो भागेन कर्तव्यः कण्ठश्चान्यस्त्रिभागिकः ॥ १६२ ॥ पट्टिकां पद्मपत्रीं च विदधीत स्तरं स्तरम् । तुङ्गस्य ४चलनं कार्यं द्विभागिकमनन्तरम् ॥ १६३ ॥ घण्टा कार्या समुत्सेधा(त्) त्रयस्त्रिंशाद्द्विभागिकी । सर्वतोभद्रसंयुक्ता५ चन्द्रशालाविभूषिता ॥ १६४ ॥ कुर्वीत त्रिस्तरं पद्मं६ चित्रपत्रसमन्वितम् । तस्योपरि (भवेत्) कुम्भश्चतुर्दशविभागिकः ॥ १६५ ॥ ग्रीवा द्विभागिका७ कार्या कर्णश्चैव तथाविधः । बीजपूरं ततः कार्यं सा(शो)भासंयुक्तमर्धतः ॥ १६६ ॥ पद्मचक्रं ८त्रिशूलं वा विधातव्यं यथोचितम् । प्रोत्तुङ्गग्राससंयुक्तं १०++ मकरमेदकैः ॥ १६७ ॥ सोत्तुङ्गकूटके१२ कुर्याद्देवं१३ दिक्षु विदिक्षु च । भूमौ भूमौ विधातव्या शाला१४ साध्यलतोरणम् (?) ॥ १६८ ॥ कोणे कोणे च (१५+करां) भद्रे करिक्य(क)रानपि । ++कूटैस्त्रिभिर्युक्तं चतुर्भिश्च जलान्तरैः ॥ १६९ ॥ कुर्वीत सर्वतोभद्रमेवंलक्षणलक्षितम् । एवं पद्मो महापद्मः स्वस्तिको वर्धमानकः ॥ १७० ॥ १ द. ल्ये । २ द. ट्टा । ३ द. त । ४ द. लवनं । ५ द. क्तो । ६ द. द्य । ७ द. स्य च° । ८ द. की । ९ द. वि । १० द. युक्तं । ११ द. में । १२ द. कैः । १३ द. व । १४ द. शालां साध्यालतोरणे । १५ मु. पु. 'मकराम्' इति स्यात् ।
[Page header: ४८६ | समराङ्गणसूत्रधारे ]
सर्वतोभद्र इत्यं(त्ये)ते समारभ्यैकभूमिकान् । पञ्चभूमिकपर्यन्तं कार्याः साधारणक्रियाः² ॥ १७१ ॥ एतैर्विंशतिभागैश्च प्रासादाः पूर्वसूचिताः । पीठादारभ्य घण्टान्तं पञ्चैते लक्षणान्विताः ॥ १७२ ॥ षड्भूमिकादिको(कं) ब्रूमो यावद् द्वादशभूमिकम् । पञ्चभूमिकः ॥ अथ षड्भौममेकान्तं त्रिंशद्धस्तं प्रचक्ष्महे ॥ १७३ ॥ चत्वारिंशत्कराः सैकास्तस्योच्छ्रायो विधीयते । पीठं प्रकल्पयेत् तस्य सार्धहस्तद्वयोच्छ्रितम् ॥ १७४ ॥ जङ्घा समुच्छ्रये कार्या सार्धहस्तचतुष्टयम् । कूटप्रस्तारमस्याहुः सो(सा)र्धहस्तोच्छ्रितं बुधाः ॥ १७५ ॥ जङ्घा द्वितीया तु भवेत् तस्य हस्तचतुष्टयम् । द्वितीयकूटस्योत्सेधं सार्धहस्तं प्रकल्पयेत् ॥ १७६ ॥ ³घण्टा तृतीया चतुरो हस्तास्तार्धाद्विवर्जिता( ? ) । तृतीयकूटप्रस्तारं कुर्याद् भूयोऽपि पूर्ववत् ॥ १७७ ॥ जङ्घा भवेच्चतुर्थी⁴ +(स सार्धा त्रे ?) करत्रयम् । पूर्वमानेन कुर्वीत कूटप्रस्तारमूर्ध्वतः ॥ १७८ ॥ हस्तत्रयं विधातव्या जङ्घोच्छ्रायेण पञ्चमी । कूटप्रस्तारकं कुर्यात् सार्धहस्तोच्छ्रितं ततः ॥ १७९ ॥ षष्ठ(ष्ठी) हस्तत्रयं जङ्घा पादहीनं विधीयते । प्राग्वत् प्रस्तारकूटं तु कपोतं त्रिकरोच्छ्रितम्⁵ ॥ १८० ॥ तस्योपरि भवेद् घण्टा हस्तपञ्चकमुच्छ्रिता । कर्तव्यं पद्ममुपरि सुविचित्रं षडङ्गुलम् ॥ १८१ ॥ कुर्याद् भागैकविंशत्या कुम्भमाङ्गरर्णैतम्(⁶भरणैर्युतम्) । षड्भूमिकोऽयमाख्यातः कथ्यते सप्तभूमिकः ॥ १८२ ॥ षड्भूमिकः ॥
१ द. त्येते । २ द. यः । ३ द. जंघा । ४ द. व्यं । ५ द. ता । ६ द. ङ्गु ।
द्रविडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः । ४८७ पञ्चत्रिंशत्करः प्रोक्तो विस्तारात् सप्त(प्त)भूमिकः¹ । सार्धैकोनपञ्चाशत्कर्ण नित्योच्छ्रिता करात् (?) ॥ १८३ ॥ त्रिहस्तं पीठमुत्सेधाज्जङ्घा पञ्चकरोच्छ्रिता । सार्धहस्तोच्छ्रितः कूटप्रस्तारो(स्य) विधीयते ॥ १८४ ॥ द्विहस्तो वेदिकाबन्धो जङ्घोच्छ्रायश्चतुष्करः । सार्धहस्तसमुत्सेधः कूटवि(प्र)स्तार इष्यते ॥ १८५ ॥ सार्धहस्तोच्छ्रिता वेदी जङ्घा सार्धकरत्रयम् । सार्धहस्तोच्छ्रितः कूट(?): प्रस्तारः परिकीर्तितः ॥ १८६ ॥ सपादहस्ताँ वेदी स्याज्जङ्घा व्यंशं(त्र्यंशं) करत्रयम् । सार्धहस्तस्तु कूटस्य प्रस्तारः स्यात् समुच्छ्रयात् ॥ १८७ ॥ हस्तं स्याद् वेदिकाबन्धो जङ्घांशो हि करद्वयम् । सपादहस्तः कूटस्य प्रस्तारो वेदिका करम् ॥ १८८ ॥ पादोनद्विकरा जङ्घा कूटं पादयुतः करः । हस्तमात्रोच्छ्रिता वेदी जङ्घा सार्धकरोच्छ्रिता ॥ १८९ ॥ कूटप्रस्तारको हस्तं कपोतः स्यात् करत्रयम् । सपद्मशीर्षघण्टा तु सार्धं स्याद्धस्तपञ्चकम् ॥ १९० ॥ एवमेष समुद्दिष्टः प्रासादः सप्तभूमिकः । सप्तभूमिकः ॥ अथाष्टभूमिकं ब्रूमः प्रासादं शुभलक्षणम् ॥ १९१ ॥ चत्वारिंशत्करांस्तस्य विस्तारं परिकल्पयेत् । उच्छ्रायः सप्तपञ्चाशत् कराः स्युस्त्रिं(शयं)शवर्जिताः ॥ १९२ ॥ नवहस्तान् प्रकुर्वीत सार्धान् प्रथमभूमिकाम् । द्वितीयाष्टौ (सपादौर्धा?) स्तुतीयाष्टौ करोंन् भवेत् ॥ १९३ ॥ चतुर्थी सप्तहस्ता तु षट्करा पञ्चमी भवेत् । पञ्चहस्ता ततः षष्ठी चतुर्हस्ता तु सप्तमी ॥ १९४ ॥ १ द. विं । २ द. घु । ३ द. श्चै । ४ द. च्छ्रितः । ५ द. ज । ६ द. कूटः प्रस्तरो(स्य) विं । ७ द. स्तो । ८ द. तं । ९ द. प्र । १० द. विंशतिव° । ११ द. रो ।
४८८ समराङ्गणसूत्रधारे ततोऽष्टमी त्रिहस्ता स्याद् वेदीबन्धः करद्वयम् । घण्टां चतुष्करां कुर्यादेवं स्यादष्टभूमिकः ॥ १९५ ॥ अष्टभूमिकः ॥ अथोच्यते हस्तमानात् प्रासादो नवभूमिकः । विस्तारादेकपञ्चाशदुच्छ्रित्या स्याद् द्विसप्ततिः ॥ १९६ ॥ कर्णप्रमाणं १ (तस्योक्ता विस्तारोऽस्य चनुच्छ्रितिः ?) । पञ्चहस्ता भवेद् घण्टा वेदिबन्धस्तदर्थतः ॥ १९७ ॥ कुर्याद्धस्तत्रयं सार्धं नवमीमस्य भूमिकाम् । अष्टमीं चतुरः सार्धान् सपादान् पञ्च सप्तमीम् ॥ १९८ ॥ षष्ठीं षट् पादहीनांश्च (सपादोनाम ?) पञ्चमीम् । अष्टौ चतुर्थी पादोनान् ३हस्ता(त्राँच ?) तृतीयकाम् ४ ॥ १९९ ॥ विलोमेनैक( ष ) कथितः ५ प्रासादो नवभूमिकः । नवभूमिकः ॥ इदानीमभिधास्यामः प्रासादं दशभूमिकम् ॥ २०० ॥ एकोनाशीतिरुत्सेधः सपादा विस्तृतिः पुनः । षट्पञ्चाशत्कराः कर्णमानाद् ब्रूमोऽथ भागशः ॥ २०१ ॥ एकादशकरोत्सेधा कार्या प्रथमभूमिका । सार्धोन् दश द्वितीया स्यात् तृतीया तु करान् दश ॥ २०२ ॥ सार्धानष्टौ चतुर्थी तु सप्तसार्धस्व(र्धांस्तु) पञ्चमी । षष्ठी सप्तकरा प्रोक्ता सप्तमी षट्करा भवेत् ॥ २०३ ॥ पञ्चहस्ताष्टमी ज्ञेया नवमी तु चतुष्करा । त्रिहस्ता दशमी कार्या वेदी सांशं करद्वयम् ॥ २०४ ॥ ++++१० प्रमाणेन सार्धं करचतुष्टयम् । एवमेष समुद्दिष्टो विन्यासो दशभूमिके ॥ २०५ ॥ दशभूमिकः प्रासादः ॥ १ द. 'णं' इति स्थाने 'णां' पाठः । २ द. रस्येवमुच्छ्रितिः । ३ द. हसन्नेव । ४ मु. पु. 'ञ्व' इति पाठ्यं भाति । ५ मुद्रित पुस्तके इत उपरि प्रथमद्वितीयभूमिकयोः प्रमाणं मातृकायां न दृश्यते । ६ द. ता । ७ द. सा । ८ द. द । ९ द. द्वै । १० द. घंटाद्वयं ।
द्राविडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः । ४८९ ब्रूमः (समासादभीथै ?) कादशभूमिकम् । पञ्चषष्टिकरः कार्यो द्विनवत्युच्छ्रित(श्च)² सः ॥ २०६ ॥ कर्णमानेन विज्ञेयः प्रासादैः³ शास्त्रवेदिभिः । प्रथमा भूमिका तस्य चतुर्दशकरा⁴ भवेत् ॥ २०७ ॥ द्वितीया द्वादशार्धं च तृतीयैकादशोच्छ्रिता । नव सार्धांश्चतुर्थी स्यात् सपादानष्ट पञ्चमी ॥ २०८ ॥ सप्तहस्ता भवेत् षष्ठी षड्ढस्ता सप्तमी ततः । पञ्चहष्टाष्टमी सार्धांश्चतुरो नवमी करान् ॥ २०९ ॥ चतुर्हस्ता तु दशमी सार्धमेकादशी त्रयम् । सपादद्विकरा वेदी घण्टा सार्धचतुष्कसा(रा) ॥ २१० ॥ प्रासादः कथितैः सम्यगित्येकादशभूमिकः । एकादशभूमिकः ॥ ब्रूमो द्वादशभौमं स सप्तषष्टिकरायतः ॥ २११ ॥ उच्छ्रायात् पञ्चनवतिर्हस्तः स्यात् कर्णमानतः । आद्या चतुर्दशकरा भूमिकाय विधीयते ॥ २१२ ॥ द्वितीयैकादशकरा(न्) तृतीयार्धयुता(न्) दश । दश हस्तांश्चतुर्थी स्यादष्टौ सार्धांस्तु पञ्चमी ॥ २१३ ॥ सार्धसप्तकरा षष्ठी सप्तहस्ता च सप्तमी । अष्टमी षट्करा पञ्चहस्ता तु नवमी भवेत् ॥ २१४ ॥ दशमी स्याच्चतुर्हस्ता त्रिहस्तैकादशी क्षितिः । द्वादशी द्वौ करौ सार्धौ वेदीबन्धः करद्वयम् ॥ २१५ ॥ चतुर्हस्ता भवेद् घण्टा सर्वलङ्कारभूषिता । स्तम्भकर्णस्य मानेन कुम्भं कुर्याद् विचक्षणः ॥ २१६ ॥ उच्छालं द्विगुणं स्तम्भात् ( हीरसार्धसङ्गुणाम् ?) । इत्येते द्राविडाः सम्यक् प्रासादा द्वादशोदिताः ॥ २१७ ॥ १ द. ब्रूमः समासात्प्रासादमीथैं ( मथै) का; मुद्रित पुस्तके तु 'समासान् प्रासादमथै' इति स्यात् । २ द. सा । ३ द. दा । ४ द. रान् । ५ द. ष्टता । ६ द. र्धा । ७ द. ता । ८ द. स्ताः । ९ मु. पु. 'हीरं सार्धगुणान्वितम्' इति स्यात् । वा. ६२
४९० समराङ्गणसूत्रधारे एषां पद्ममहापद्मस्वस्तिका वर्धमानकः । सर्वतोभद्र (लता ?)स्तलबन्धान् निवेशयेत् ॥ २१८ ॥ (आरभ्यन्तामरेकस्या चै ?) द्वादशभूमिका(त्) । ऊर्ध्वमानं च कर्तव्यं सामान्यं तेषु पञ्चसु ॥ २१९॥ द्वादशभूमिकः ॥ (पीठमूल ?)च्छन्दकभूमिकामि- र्विनिर्मिता द्रविडनामधेयाः । प्रासादमुख्याः कथिता(यथा यँथा- ऽवेत्थं खल्पिविमिरुच्यतेऽसौ ?) ॥ २२० ॥ इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे द्राविडप्रासादाध्यायो नाम द्विषष्टितमः ॥ अथ मेर्वादिविंशिकानागरप्रासादलक्षणं नाम त्रिषष्टितमोऽध्यायः । अधुना नागरान् ब्रूमः प्रासादान् नामलक्षणैः । मेरुमन्दरकैलासाः कुम्भोऽथ मृगराज् गजः ॥ १ ॥ विमानच्छन्दसंज्ञश्च चतुरश्रस्तथापरः । अष्टाश्रिः षोडशाश्रिश्च वर्तुलैः सर्वतोद(भद्र)कः ॥ २ ॥ सिंहास्यो नन्दनो नन्दिवर्ध(मा ?)नो हंसको वृषः । गरुत्सा (गरुडः) पद्मकाख्यश्च समुद्र इति विंशतिः ॥ ३ ॥ नागराणामिति प्रोक्ता प्रासादानां समासतः । शत(मुद्दे ?)श्रुतद्वर्दारः षोडशक्षितिरूर्ध्व(तः) ॥ ४ ॥ विचित्रशिखराकीर्णो मेरुः प्रासाद उच्यते । मन्दरो द्वादशटलः कैलासो नवभूमिकः ॥ ५ ॥ १ मु. 'इत्येतां' इति पाठः स्यात् । द. लतां । २ द. छन्दान् । ३ मु. पु. 'आरभ्य भूमेरकस्या आ च' इति स्यात् । ४ द. या च । ५ द. पीठस्तल । मुद्रित पु. 'पीठैस्तल' इति स्यात् । ६ द. द्र । ७ द. यो । ८ द. वेत्थ स्वं च्छिल्यिमिरुच्यतेऽसौ । ९ द. सः । १० द. श्नि । ११ द. श्नि । १२ द. र्द्ध । १३ द. यं । १४ द. द्र । १५ द. त्रा ।