समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 541, कुल 726 में से
संदर्भ में पढ़ेंपट्टिकां मकराख्यां च छेदमेकस्तरं विदुः । स्तरमेकं भवेत् कण्ठः स्तरस्यार्धं च पट्टिका ॥ ९८ ॥ तथैव वेदिकां कुर्याच्छेद मर्धस्तरं पुनः । सार्धभागं प्रकुर्वीत कण्ठदेशं विचक्षणः ॥ ९९ ॥ पट्टिका (मंध ?)संज्ञा तु स्तरमेकं विधीयते । घण्टा स्तरद्वयं कार्या गुणद्वारविभूषिता ॥ १०० ॥ कुम्भं विदध्यादुपरि द्विस्तरं पङ्कजाननम् । भागमेकं भवेच्छेदस्ततः कण्ठः स्तरद्वयम् ॥ १०१ ॥ पट्टिका स्तरमेकं तु वेदिका तु स्तरावुभौ । पुनश्छेदो भवेद् भागं + + कण्ठो विधीयते ॥ १०२ ॥ पट्टिका स्तरमेकं तु तदूर्ध्वम्भोजपत्रिका । स्तराणां विंशतिर्घण्टा भवेद् गर्भार्धविस्तृता ॥ १०३ ॥ चन्द्रशालाश्च कर्तव्या दर्शनीयाश्चतुर्दिशम् । एवं पद्मे महापद्मे स्वस्तिके वर्धमानके ॥ १०४ ॥ तथैव सर्वतोभद्रे कुर्याद् घण्टामिमां बुधः । कुम्भं तु पञ्चदशभिः स्तरैः कार्या(कुर्यात्) समुन्ननम् ॥ १०५ ॥ स्याच्चतुर्भूमिको ह्येवं तलच्छन्दस्तु कामतः । चतुर्भूमिकाः ॥ पञ्चभौममथ ब्रूमः प्रासादं राजपोजितम् ॥ १०६ ॥ विस्तारेण विधातव्यः स हस्त्व(स्ता)नैकविंशतिम् । विभाजयेत् तथोत्सेधं पादोनँस्त्रिशतं करान् ॥ १०७ ॥ पीठं भागद्वयं सार्धं जङ्घा (साराग्ना ?)त्रिभागिकी । कुर्वीत कूटप्रस्तारं ३ सार्धहस्तं च बुद्धिमान् ॥ १०८ ॥ जङ्घा द्वितीया कर्तव्या हस्तत्रितयमुच्छ्रिता । भूयोऽपि कूटप्रस्तारं सार्धहस्तं प्रकल्पयेत् ॥ १०९ ॥ १ मु. पु. 'पद्म' इति स्यात् । २ द. का । ३ द. स्ता । ४ द. नं । ५ द. र ।