समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 543, कुल 726 में से
संदर्भ में पढ़ें४८२ समराङ्गणसूत्रधारे
( वोख्यापट्टिकां १? ) भागं वेदीं विचक्षणः । कुर्वीत भागिकं छेदं ततः कण्ठं स्तरद्वयम् ॥ १२२ ॥ स्तरं स्तरं प्रकुर्वीत पट्टिका पद्मपट्टिका । कूटप्रस्तारके कुर्यान्मकराननपञ्चकम् ॥ १२३ ॥ विचित्ररूपं सर्वासु दिक्षु सर्वगुणान्वितम् । ऊर्ध्वतः पट्टिकायास्तु घण्टा पञ्चस्तरा भवेत् ॥ १२४ ॥ नासिकाभिर्विचित्राभिरत्युदाराभिरन्विता । भद्राणि यस्य दृश्यन्ते कूटे कूटे समन्ततः ॥ १२५ ॥ स सर्वतोभद्र इति प्रासादः शिल्पिनां मतः । अवलम्बेन तदनु स्तम्भच्छेदं प्रकल्पयेत् ॥ १२६ ॥ स्तम्भत + + +^२ त्रेण समानं भुवि सूत्रयेत् । ^३मेढस्य निर्गमे^४ दद्यादङ्गुलैद्वितयं बुधः ॥ १२७॥ पञ्चाङ्गुलानि कर्तव्यस्ततो मकरनिर्गमः । सूत्रयेत् समसूत्रेण ततो मेढंक( स्य ? ) पट्टिका ॥ १२८ ॥ षडङ्गुलप्रवेशस्तु कार्यश्छेदस्य धीमता । यथा प्रवेशं + + + छेदस्यापि तथा भवेत् ॥ १२९ ॥ अङ्गुलद्वितयं कार्यः पट्टिकाया विनिर्गमः । विनिर्गमो वेदिकाया विधातव्यः षडङ्गुलः ॥ १३० ॥ अङ्गुलद्वयनिष्क्रान्ता विधेया कण्ठपट्टिका । पद्माख्यानिर्गमं कुर्यादङ्गुलत्रितयं ततः ॥ १३१ ॥ अङ्गुलानि ततः पञ्च योनि + निर्गमो भवेत् । घण्टा त्विह विधातव्या सर्वालङ्कारभूषिता ॥ १३२ ॥ ( ^५भेद ? )स्ततः स्याद् भवति भूमिका तस्य चोपरि । द्वितीया( य )भूमिकाजङ्घा ( सद्यः ? ) स्यादष्टभिः स्तरैः ॥ १३३ ॥ मालाद्यैर्लशुनं चैकं भरणं कलशस्तथा । यथा माला तथोच्छां वीरगण्डं स्तरं भवेत् ॥ १३४ ॥ १ द. कंठाख्यपट्टिका भागं । २ द. सू । ३ द. में । ४ द. में । ५ द. लं । ६ द. में । ७ द. रुंछं । ८ द. शः । ९ द. छे ।