भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 544, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 544

द्राविडप्रासादलक्षणं नाम द्विष्टितमोऽध्यायः । ४८३ उच्छांलहीरके पट्टसमे कुर्याद् विचक्षणः । पट्टिका भागिकोत्सेधा वासन्तं ++ का तथा ॥ १३५ ॥ कपोतं त्रिस्तरोत्सेधं (१छेदो ?) सञ्यंशवर्जितम् । छेदस्यार्धे३ भवेन्मेढो मकरः पट्टिका तथा ॥ १३६ ॥ ततश्छेदं (च) कण्ठं च +++ पट्टिकां तथा । मालार्धेन प्रकुर्वीत च्छेदमेव ततो बुधैः ॥ १३७ ॥ पुनः कण्ठं प्रकुर्वीत हीरकेगो(ण) समन्वितम् । पट्टि(का) पद्मपूर्वा च त्रिभागो(गे)न कपोतके ॥ १३८॥ कुर्याच्चतुःस्तरां घण्टां द्वाभ्यां कुम्भं तथोपरि । पुनश्छेदो भवेद् भागं जङ्घां कुर्वीत सप्तभिः ॥ १३९ ॥ (६सीतमाठा ?) विधातव्या मालोच्चु(चो) द्विस्तरो भवेत् । लशुनं भरणं कुम्भो गण्डश्चेति स्तरं स्तरम् ॥ १४० ॥ गण्डद्विगुणमुच्छालं हीरपट्टस्तथैव च । पट्टिका स्तरमेकं स्याद् वसन्तपट्टिकास्य च ॥ १४१ ॥ ९पीठं द(श)गुणं कुर्याच्छेद्मेष्ठौ१० स्तरं स्तरम् । स्तरं कुर्वीत (११रौकर ?) (तथा) मकरपट्टिकाम् ॥ १४२॥ स्तरं छेदं च कण्ठं च पट्टिकां वेदिकां तथा । छेदं कुर्यात् पुनर्भागं कण्ठं तद्विगुणं ततः ॥ १४३॥ पट्टिका स्तरमेकं स्याद् वसन्तपट्टिका स्तरम् । चतुःस्तरा भवेद् घण्टा (१२प्राग्ग्राचकभूषिता ?) ॥ १४४ ॥ तस्योपरि पुनः कुम्भं घण्टार्धेनैव कारयेत् । छेदं१३ भागं विजानीयाज्जङ्घा सप्तांशिका स्मृता ॥ १४५ ॥ माला द्विभागिका कार्या भागिकं लशुनं१५ भवेत् । भरणं कुम्भकं गण्डं कुर्याल्लशुनवद् बुधः ॥ १४६ ॥ १ द. छं । २ द. तः । ३ द. र्धं । ४ द. में । ५ द. धैः । ६ द. सा तु माय । ७ द. माला बुद्धिस्तरा भवेत् । ८ द. न्तं । ९ द. कपोतं । १० द. ष्ठो । ११ द. राकारं । परन्तु मुद्रित पुस्तके तु 'मकरम्' इति स्यात् । १२ द. ष्टा प्राग्रीवकभूषितां; मुद्रित पुस्तके 'प्राग्रीवकविभूषिता' इति स्यात् । १३ द. द । १४ द. की । १५ द. ना ।