भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 545, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 545

४८४ समराङ्गणसूत्रधारे उच्छांलं गण्डकं चैव हीरकान्तं च भागिकम् । सार्धं १ भागं भवेत् ++ २ पट्टिकार्धं ३ स्तरं भवेत् ॥ १४७ ॥ ४++ तं भागमेकं स्याद् वसन्तारुया च पट्टिका । कपोतं त्रिस्तरं कुर्यान्नासायुक्तं विचक्षणः ॥ १४८ ॥ छेदमंशेन कुर्वीत ( मैण्डमंशेन ? ) कारयेत् । मकरे पट्टिकां छेदं विदधीत स्तरं स्तरम् ॥ १४९ ॥ कुर्वीत भागिकं ( कण्ठं ) पट्टिकां ५ वेदिकामपि । भागं कुर्यात् पुनश्छेदं ६ ततः कण्ठं द्विभागिकम् ॥ १५० ॥ पट्टिका पद्मपूर्वा च विधातव्या स्तरं स्तरम् । कुर्वीत घण्टामुपरि चतुर्भागां विचक्षणः ॥ १५१ ॥ तदर्थमूर्ध्वतः कुम्भं छेदमर्धेन तस्य च । जङ्घा षड्भागिका कार्या ( मोन्ता गेन सुन कारयेन ? ) ॥ १५२ ॥ लशुनं भरणं कुम्भं गण्डमुच्छाल(वाड ?)के । हीरकं चेति कुर्वीत भागिकानि पृथक् पृथक् ॥ १५३ ॥ सार्धं १० भागं भवेत् पट्टः पट्टिकार्धस्तरोच्छ्रिता । वसन्तं भागमेकं स्याद् वसन्तारुया च पट्टिका ॥ १५४ ॥ कपोतं त्रिस्तरं कुर्याच्छेदं ( त्र्यंशोनशंसकां ११ म् ? ) । मण्डको मकरश्चैव पट्टिका छेदकण्ठकौ ॥ १५५ ॥ कण्ठं पट्टी च वेदी च छेदश्च स्यात् स्तरं स्तरम् । द्वितीयो द्विस्तरः कण्ठो भागिकी पट्टिका भवेत् ॥ १५६ ॥ तथैव पद्मसंज्ञा च स्यादुच्छ्रायेण पट्टिका । घण्टां कुर्याच्चतुर्भागां कुम्भमर्धेन तस्य च ॥ १५७ ॥ छेदमेकेन भागेन जङ्घाम १२ + र्धभागिकीम् । माला(मे)केन भागेन लशुनं सार्धभागिकम् ॥ १५८ ॥ १ द. र्धं । २ द. पट्टः । ३ द. र्ध । ४ द. '++तं......कारयेत्' इति पाठः नास्ति । ५ मुद्रित पुस्तके 'मेढमंशेन' इति स्यात् । ६ द. का । ७ द. द । ८ द. म्भ । ९ द. मातागे (रो) न कारयेत् । १० द. 'र्ध । ११ द. कं । १२ द. जंङ्गां मद्धों त्रिभागिकीं ।