समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 546, कुल 726 में से
संदर्भ में पढ़ेंद्रविडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः । ४८९ तथैव भरणं कुर्यात् कुम्भोच्छाले¹ स्तरं स्तरम् । हीरकं भागिकं कुर्यात् पद्मं² सार्धस्तरं ततः ॥ १५९ ॥ पट्टिकार्धस्तरं कार्या वसन्तं च स्तरं ततः । कपोतं³ द्विस्तरं कुर्याद् वेदीमर्धस्तरं तथा ॥ १६० ॥ यथा छेदस्तथा मण्डो मकरश्च विधीयते । पट्टिकार्धस्तरं कार्या छेदोऽप्यर्धस्तरं भवेत् ॥ १६१ ॥ भागं कण्ठः पट्टिका च वेदी कार्या द्विभागिकी । छेदो भागेन कर्तव्यः कण्ठश्चान्यस्त्रिभागिकः ॥ १६२ ॥ पट्टिकां पद्मपत्रीं च विदधीत स्तरं स्तरम् । तुङ्गस्य ४चलनं कार्यं द्विभागिकमनन्तरम् ॥ १६३ ॥ घण्टा कार्या समुत्सेधा(त्) त्रयस्त्रिंशाद्द्विभागिकी । सर्वतोभद्रसंयुक्ता५ चन्द्रशालाविभूषिता ॥ १६४ ॥ कुर्वीत त्रिस्तरं पद्मं६ चित्रपत्रसमन्वितम् । तस्योपरि (भवेत्) कुम्भश्चतुर्दशविभागिकः ॥ १६५ ॥ ग्रीवा द्विभागिका७ कार्या कर्णश्चैव तथाविधः । बीजपूरं ततः कार्यं सा(शो)भासंयुक्तमर्धतः ॥ १६६ ॥ पद्मचक्रं ८त्रिशूलं वा विधातव्यं यथोचितम् । प्रोत्तुङ्गग्राससंयुक्तं १०++ मकरमेदकैः ॥ १६७ ॥ सोत्तुङ्गकूटके१२ कुर्याद्देवं१३ दिक्षु विदिक्षु च । भूमौ भूमौ विधातव्या शाला१४ साध्यलतोरणम् (?) ॥ १६८ ॥ कोणे कोणे च (१५+करां) भद्रे करिक्य(क)रानपि । ++कूटैस्त्रिभिर्युक्तं चतुर्भिश्च जलान्तरैः ॥ १६९ ॥ कुर्वीत सर्वतोभद्रमेवंलक्षणलक्षितम् । एवं पद्मो महापद्मः स्वस्तिको वर्धमानकः ॥ १७० ॥ १ द. ल्ये । २ द. ट्टा । ३ द. त । ४ द. लवनं । ५ द. क्तो । ६ द. द्य । ७ द. स्य च° । ८ द. की । ९ द. वि । १० द. युक्तं । ११ द. में । १२ द. कैः । १३ द. व । १४ द. शालां साध्यालतोरणे । १५ मु. पु. 'मकराम्' इति स्यात् ।