भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 547, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 547

[Page header: ४८६ | समराङ्गणसूत्रधारे ]

सर्वतोभद्र इत्यं(त्ये)ते समारभ्यैकभूमिकान् । पञ्चभूमिकपर्यन्तं कार्याः साधारणक्रियाः² ॥ १७१ ॥ एतैर्विंशतिभागैश्च प्रासादाः पूर्वसूचिताः । पीठादारभ्य घण्टान्तं पञ्चैते लक्षणान्विताः ॥ १७२ ॥ षड्भूमिकादिको(कं) ब्रूमो यावद् द्वादशभूमिकम् । पञ्चभूमिकः ॥ अथ षड्भौममेकान्तं त्रिंशद्धस्तं प्रचक्ष्महे ॥ १७३ ॥ चत्वारिंशत्कराः सैकास्तस्योच्छ्रायो विधीयते । पीठं प्रकल्पयेत् तस्य सार्धहस्तद्वयोच्छ्रितम् ॥ १७४ ॥ जङ्घा समुच्छ्रये कार्या सार्धहस्तचतुष्टयम् । कूटप्रस्तारमस्याहुः सो(सा)र्धहस्तोच्छ्रितं बुधाः ॥ १७५ ॥ जङ्घा द्वितीया तु भवेत् तस्य हस्तचतुष्टयम् । द्वितीयकूटस्योत्सेधं सार्धहस्तं प्रकल्पयेत् ॥ १७६ ॥ ³घण्टा तृतीया चतुरो हस्तास्तार्धाद्विवर्जिता( ? ) । तृतीयकूटप्रस्तारं कुर्याद् भूयोऽपि पूर्ववत् ॥ १७७ ॥ जङ्घा भवेच्चतुर्थी⁴ +(स सार्धा त्रे ?) करत्रयम् । पूर्वमानेन कुर्वीत कूटप्रस्तारमूर्ध्वतः ॥ १७८ ॥ हस्तत्रयं विधातव्या जङ्घोच्छ्रायेण पञ्चमी । कूटप्रस्तारकं कुर्यात् सार्धहस्तोच्छ्रितं ततः ॥ १७९ ॥ षष्ठ(ष्ठी) हस्तत्रयं जङ्घा पादहीनं विधीयते । प्राग्वत् प्रस्तारकूटं तु कपोतं त्रिकरोच्छ्रितम्⁵ ॥ १८० ॥ तस्योपरि भवेद् घण्टा हस्तपञ्चकमुच्छ्रिता । कर्तव्यं पद्ममुपरि सुविचित्रं षडङ्गुलम् ॥ १८१ ॥ कुर्याद् भागैकविंशत्या कुम्भमाङ्गरर्णैतम्(⁶भरणैर्युतम्) । षड्भूमिकोऽयमाख्यातः कथ्यते सप्तभूमिकः ॥ १८२ ॥ षड्भूमिकः ॥


१ द. त्येते । २ द. यः । ३ द. जंघा । ४ द. व्यं । ५ द. ता । ६ द. ङ्गु ।

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र) · पृष्ठ 547, कुल 726 में से · BharatKosha