समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 548, कुल 726 में से
संदर्भ में पढ़ेंद्रविडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः । ४८७ पञ्चत्रिंशत्करः प्रोक्तो विस्तारात् सप्त(प्त)भूमिकः¹ । सार्धैकोनपञ्चाशत्कर्ण नित्योच्छ्रिता करात् (?) ॥ १८३ ॥ त्रिहस्तं पीठमुत्सेधाज्जङ्घा पञ्चकरोच्छ्रिता । सार्धहस्तोच्छ्रितः कूटप्रस्तारो(स्य) विधीयते ॥ १८४ ॥ द्विहस्तो वेदिकाबन्धो जङ्घोच्छ्रायश्चतुष्करः । सार्धहस्तसमुत्सेधः कूटवि(प्र)स्तार इष्यते ॥ १८५ ॥ सार्धहस्तोच्छ्रिता वेदी जङ्घा सार्धकरत्रयम् । सार्धहस्तोच्छ्रितः कूट(?): प्रस्तारः परिकीर्तितः ॥ १८६ ॥ सपादहस्ताँ वेदी स्याज्जङ्घा व्यंशं(त्र्यंशं) करत्रयम् । सार्धहस्तस्तु कूटस्य प्रस्तारः स्यात् समुच्छ्रयात् ॥ १८७ ॥ हस्तं स्याद् वेदिकाबन्धो जङ्घांशो हि करद्वयम् । सपादहस्तः कूटस्य प्रस्तारो वेदिका करम् ॥ १८८ ॥ पादोनद्विकरा जङ्घा कूटं पादयुतः करः । हस्तमात्रोच्छ्रिता वेदी जङ्घा सार्धकरोच्छ्रिता ॥ १८९ ॥ कूटप्रस्तारको हस्तं कपोतः स्यात् करत्रयम् । सपद्मशीर्षघण्टा तु सार्धं स्याद्धस्तपञ्चकम् ॥ १९० ॥ एवमेष समुद्दिष्टः प्रासादः सप्तभूमिकः । सप्तभूमिकः ॥ अथाष्टभूमिकं ब्रूमः प्रासादं शुभलक्षणम् ॥ १९१ ॥ चत्वारिंशत्करांस्तस्य विस्तारं परिकल्पयेत् । उच्छ्रायः सप्तपञ्चाशत् कराः स्युस्त्रिं(शयं)शवर्जिताः ॥ १९२ ॥ नवहस्तान् प्रकुर्वीत सार्धान् प्रथमभूमिकाम् । द्वितीयाष्टौ (सपादौर्धा?) स्तुतीयाष्टौ करोंन् भवेत् ॥ १९३ ॥ चतुर्थी सप्तहस्ता तु षट्करा पञ्चमी भवेत् । पञ्चहस्ता ततः षष्ठी चतुर्हस्ता तु सप्तमी ॥ १९४ ॥ १ द. विं । २ द. घु । ३ द. श्चै । ४ द. च्छ्रितः । ५ द. ज । ६ द. कूटः प्रस्तरो(स्य) विं । ७ द. स्तो । ८ द. तं । ९ द. प्र । १० द. विंशतिव° । ११ द. रो ।