समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 535, कुल 726 में से
संदर्भ में पढ़ें४७४ समराङ्गणसूत्रधारे
कूटं तदूर्ध्वं कुर्वीत विचित्रं नासिकान्वितम् । छेदान्तं पूर्वमानेन सर्वमेतद् विधीयते ॥ २४ ॥ तस्योपरि पुनर्जङ्घा सर्वाभरणभूषिता । ततो मालाथ (ल) शुनं तोरणं कलशस्ततः ॥ २५ ॥ वीरगण्डस्ततो (थो) च्छालं पत्रकं वीरगण्डकः । हीरकं पट्टिका तद्वद्वसन्तपट्टिका पुनः ॥ २६ ॥ कपोतच्छेदमेहाश्च (मँकरोऽस्य ?) च पट्टिका । छेदः करपट्टिका च (?) वेदीच्छेदोऽथ कण्ठकः ॥ २७ ॥ पट्टिका पद्मपूर्वा च कर्तव्या पट्टिका ++। ततश्छेदो विधातव्यः सर्वैराभरणैर्युतः ॥ २८ ॥ ततश्छित्त्वा तथा कार्यं यथा शोभा प्रजायते । पुनः कण्ठ्यं(?) प्रदातव्यः पट्टिका पद्मपट्टिका ॥ २९ ॥ ततः कण्ठं विधातव्यं चन्द्रमालाविभूषितम् (?)। प्रकुर्वीत ततःच्छेदमपरिष्टाद् विचक्षणः ॥ ३० ॥ कण्ठपट्टिकया युक्तं तदूर्ध्वं कण्ठपट्टिकाम् । सप्ताङ्गुलानि कर्तव्यस्ततो घण्टाविनिर्गमः ॥ ३१ ॥ भागार्धं विस्तृतैस्तस्या विस्तारार्धं समुच्छ्रितिः । एवं द्विभूमिकं प्राज्ञः प्रासादं परिकल्पयेत् ॥ ३२ ॥ द्विभूमिकः ॥ त्रिभूमिकस्तृतीयोऽथ प्रासादोऽस्माभिरुच्यते । तस्यैकादश विस्तारो हस्तः पञ्चदशोच्छ्रयः ॥ ३३ ॥ चतुर्दशाङ्गुलान्येषां भवेदस्याधिकापि(नि) च । +++भूमिकस्यैतत् कर्णमानमसंशयम् ॥ ३४ ॥ पीठं द्विहस्तं कुर्वीत तत्रादौ पूर्वसूचितम् । जङ्घां त्रिभागिकोत्सेधां कूटोच्छ्रायं तु भागिकम् ॥ ३५ ॥
१ द. भ । २ द. ंदं मेहांश्च । ३ मुद्रित पुस्तके 'मकराख्या' इति स्यात् । ४ द. भूमिकः । ५ द. रा । ६ द. च्छिृत्वाः ।