समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 536, कुल 726 में से
संदर्भ में पढ़ेंद्राविडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः । ४७५ भवेजङ्घा तृतीया च सार्धभागद्वयं ततः । भागं च कूटप्रसरश्चन्द्रशालाविभूषितः ॥ ३६ ॥ पुनस्तृतीया जङ्घा (स्याद् भाग) द्वय (स) मुच्छ्रिता । नतश्च (शो ?) कू (ट) प्रस्तारो भागिको भूषणान्वितः ॥ ३७॥ भागं स्याद् वेदिबन्धः + सगुणद्वारकण्ठकः । चतुर्द (र्दि) शमसौ कार्यों भूषायुक्तो यथोचितम् ॥ ३८ ॥ घण्टाच्छेदस्तु भागौ३ (द्वौ) द्वयङ्गुलद्वयसंयुतौ । एकादशस्तरा४ (कुरु ?) स्तस्योपरि विधीयते ॥ ३९ ॥ इदानीं प्रविभागोऽस्य पीठादूर्ध्वं विधीयते । हस्तमेकं भवेजङ्घा (यद्येपि च ?) तया समा ॥ ४० ॥ माला तु द्विस्तरा प्रोक्ता लशुनं भागिकं ततः । भरणं स्तरमेकं स्यात् कलशोऽपि च तत्समः६ ॥ ४१ ॥ वीरगण्डसमायुक्तमुच्छालं द्विस्तरं ततः । ततस्तरं वीरगण्डो ७++++++++ ॥ ४२ ॥ हीरकं द्विस्तरं विद्यात् स (स्त) रं वासन्तपट्टिका । कपोतं८ नासिकायुक्तं त्रिस्तरं कारयेत् ततः ॥ ४३ ॥ छेदं प्रस्तप्रमाणं च मेढं च तत्सम्मितम् (?) । स्तरं कुर्वीत मकरं तदर्धेनास्य पट्टिका९ ॥ ४४ ॥ छेदं तथैव कुर्वीत कण्ठमेकंस्तरं ततः । पट्टिका वेदिका चैव स्तरमेकं विधीयते ॥ ४५ ॥ छेदमर्धस्तरं ११विद्यात् कण्ठं सार्धस्तरं ततः । पट्टिका स्यात् स्तरं पद्म स्तरमेकं ततो भवेत् ॥ ४६ ॥ शेषे१२ च सुन्दरं कण्ठं विधातव्यं(?) विचक्षणैः । अनन्तरं द्वितीया च जङ्घा कार्या नवस्तरा ॥ ४७ ॥ १ द. द्वि । २ द. श । ३ द. ˚ग द्वयङ्गुल˚ । ४ द. रः । ५ द. टा । ६ द. मम् । ७ द. हीरकं द्विस्तरं ततः । पट्टसूरस्ततः कार्यस्तरमेकं च पट्टिका । वसन्त द्विस्तरं विद्यात्सरं वासन्तपट्टिकां । ८ द. ता । ९ द. कां । १० द. कं । ११ द. विं । १२ द. षं ।