समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 537, कुल 726 में से
संदर्भ में पढ़ें४७६ समराङ्गणसूत्रधारे मध्ये च सा प्रकर्तव्या तदूर्ध्वं तां विभाजयेत् । ततस्तरं भवेच्छाला स्तरार्धं लशुनं ततः ॥ ४८ ॥ तथैव भरणं ज्ञेयं पूर्वनिर्दिष्टलक्षणम् । वीरगण्डेन सहितः कलशोऽपि तथा भवेत् ॥ ४९ ॥ पद्मपत्रिकया युक्तं स्तरमुच्छालकं विदुः । वीरगण्डं स्तरं विद्यादर्धभागं च हीरकम् ॥ ५० ॥ पट्टं तथैव कुर्वीत स्तरस्यार्धेन पट्टिका । वसन्तः स्तरमेकं स्याद् स्तरं वासन्तपट्टिका ॥ ५१ ॥ कपोतं त्रिस्तरं कुर्यान्नासिकासहितं बुधः । छेदमर्धस्तरं विद्यान्मेढं तत्तुल्यमेव च ॥ ५२ ॥ मकरं स्तरमेकं च भागार्धं पट्टिकां ततः । ³भागमेकं भवेच्छेदः स्तरं कण्ठस्तदूर्ध्वतः ॥ ५३ ॥ पट्टिका वेदिका चैव स्तरमेकं विधीयते । छेदं भागार्थिकं कुर्यात् कण्ठकं सार्धभागिकम् ॥ ५४ ॥ भागेन पट्टिकां कुर्यात् तथा कमलपत्रिकाम् । कूटं ततः परं कुर्यान्नासिका च (सु) विभूषितम् ॥ ५५ ॥ तृतीयजङ्घामद्वा (तद्वत्) स्याच्चतुर्भिः कल्पिता स्तरैः । स्तरमेकं भवेन्माला स्तरं च लशुनं विदुः ॥ ५६ ॥ भरणं स्तरमेकं च कुम्भमेकस्तरं तथा । वीरगण्डसमोपेतमुच्छालं स्यात् तदूर्ध्वतः ॥ ५७ ॥ स्तरमेकं प्रकुर्वीत वीरगण्डसमु(च्छ्रि)तिम् । ततश्च हीरकं कुर्याद् भागेनैकेन बुद्धिमान् ॥ ५८ ॥ सार्धभागेन पट्टिः⁴ स्यात् पट्टिकार्थं स्तरं तथा । स्तरमेकं वसन्तं स्यात् स्तरं वासन्तपट्टिका ॥ ५९ ॥ कपोतो द्विस्तरश्छेदोऽर्धस्तरो मेण्ढकः स्तरः । भागिको मकरः कार्यः पट्टिका चार्धभागिकों ॥ ६० ॥
१ द. ण्ड । २ द. कां । ३ द. ‘भागमेकं......सार्धभागिकम्’ इति पाठः नास्ति । ४ द. ट्टः । ५ द. की ।