भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 538, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 538

द्राविडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः । ४७७ ('मेदो ?)ऽर्धभागिको भागमेकं कण्ठः प्रकीर्तितः । पट्टिकावेदिका( भेदा ? )स्त्रयोऽप्यर्धस्तरं पृथक् ॥ ६१ ॥ कण्ठश्चार्धस्तरः कार्यः पीठिका चार्थभागिका । अर्धभागेन कर्तव्या तदूर्ध्वं पद्मपत्रिका ॥ ६२ ॥ विचित्रलक्षणोपेतं ततः कूटं विधीयते । स्तरमेकं भवेच्छेदः स्यात् कण्ठोऽप्येवमेव ( च ?) हि ॥ ६३ ॥ पट्टिका स्तरमेकं स्यात् ततो वेदी स्तरद्वयम् । छेदः स्तरं भवेद् भूयः कण्ठः स्याद् द्विस्तरं³ ततः ॥ ६४ ॥ कर्तव्ये स्तरमेकैकं पट्टिका पद्मपत्रिका४ । घण्टा ततःक( प )रं कार्या मानतो विंशतिस्तरा ॥ ६५ ॥ एकादशस्तरः कुम्भः सर्वेषां सर्वतो भवेत् । त्रिभूमिकोऽयमाख्यातश्चतुर्भूमिरथोच्यते ॥ ६६ ॥ त्रिभूमिकः ॥ हस्तान् पञ्चदश क्षेत्रं ५विस्तारा( त्तु )प्रकल्पयेत् । उच्छ्रायेण६ तु हस्तानां स्यात् ( पादैकविंशतिः ? )७ ॥ ६७ ॥ द्विहस्तं कारयेत् पीठं जङ्घां हस्तत्रयोच्छ्रिताम् । सार्धहस्तं भवेत् कूटं सर्वालङ्कारभूषितम् ॥ ६८ ॥ द्वितीयजङ्घा कर्तव्या पादहीनं करत्रयम् । सपादहस्तं कुर्वीत कूटमन्यत् तदूर्ध्वतः ॥ ६९ ॥ तृतीयजङ्घा कर्तव्या सार्धं हस्तद्वयं ततः । ततश्च कूटप्रस्तारो हस्तमेकं विधीयते ॥ ७० ॥ ९जङ्घा चतुर्थी कर्तव्या सार्धहस्तद्वयं ततः । ततश्च कूटप्रस्तारो हस्तमेकं विधीयते ॥ ७१ ॥ जङ्घा चतुर्थी कर्तव्या सपादद्विकरोच्छ्रितां८ । हस्तं च कूटप्रस्तारो वेदीबन्धस्तथाविधः ॥ ७२ ॥

१ द. 'मेदो ?......चार्धभागिका' इति पाठः नास्ति । २ द. त्रं । ३ द. रस्ततः । ४ द. के । ५ द. विस्तारेण प्र° । ६ द. च्छ्र । ७ मुद्रित पुस्तके 'पादोनैकविंशतिः' इति स्यात् । ८ द. त । ९ द. 'जङ्घा......विधीयते ॥' इति पाठः नास्ति । १० द. ताः ।