समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 550, कुल 726 में से
संदर्भ में पढ़ेंद्राविडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः । ४८९ ब्रूमः (समासादभीथै ?) कादशभूमिकम् । पञ्चषष्टिकरः कार्यो द्विनवत्युच्छ्रित(श्च)² सः ॥ २०६ ॥ कर्णमानेन विज्ञेयः प्रासादैः³ शास्त्रवेदिभिः । प्रथमा भूमिका तस्य चतुर्दशकरा⁴ भवेत् ॥ २०७ ॥ द्वितीया द्वादशार्धं च तृतीयैकादशोच्छ्रिता । नव सार्धांश्चतुर्थी स्यात् सपादानष्ट पञ्चमी ॥ २०८ ॥ सप्तहस्ता भवेत् षष्ठी षड्ढस्ता सप्तमी ततः । पञ्चहष्टाष्टमी सार्धांश्चतुरो नवमी करान् ॥ २०९ ॥ चतुर्हस्ता तु दशमी सार्धमेकादशी त्रयम् । सपादद्विकरा वेदी घण्टा सार्धचतुष्कसा(रा) ॥ २१० ॥ प्रासादः कथितैः सम्यगित्येकादशभूमिकः । एकादशभूमिकः ॥ ब्रूमो द्वादशभौमं स सप्तषष्टिकरायतः ॥ २११ ॥ उच्छ्रायात् पञ्चनवतिर्हस्तः स्यात् कर्णमानतः । आद्या चतुर्दशकरा भूमिकाय विधीयते ॥ २१२ ॥ द्वितीयैकादशकरा(न्) तृतीयार्धयुता(न्) दश । दश हस्तांश्चतुर्थी स्यादष्टौ सार्धांस्तु पञ्चमी ॥ २१३ ॥ सार्धसप्तकरा षष्ठी सप्तहस्ता च सप्तमी । अष्टमी षट्करा पञ्चहस्ता तु नवमी भवेत् ॥ २१४ ॥ दशमी स्याच्चतुर्हस्ता त्रिहस्तैकादशी क्षितिः । द्वादशी द्वौ करौ सार्धौ वेदीबन्धः करद्वयम् ॥ २१५ ॥ चतुर्हस्ता भवेद् घण्टा सर्वलङ्कारभूषिता । स्तम्भकर्णस्य मानेन कुम्भं कुर्याद् विचक्षणः ॥ २१६ ॥ उच्छालं द्विगुणं स्तम्भात् ( हीरसार्धसङ्गुणाम् ?) । इत्येते द्राविडाः सम्यक् प्रासादा द्वादशोदिताः ॥ २१७ ॥ १ द. ब्रूमः समासात्प्रासादमीथैं ( मथै) का; मुद्रित पुस्तके तु 'समासान् प्रासादमथै' इति स्यात् । २ द. सा । ३ द. दा । ४ द. रान् । ५ द. ष्टता । ६ द. र्धा । ७ द. ता । ८ द. स्ताः । ९ मु. पु. 'हीरं सार्धगुणान्वितम्' इति स्यात् । वा. ६२