समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 555, कुल 726 में से
संदर्भ में पढ़ेंषष्ठी तु भूमिका कार्या प्रमाणेनास्य षट्करा । सप्तमी पञ्चहस्ता तु (चतु)र्हस्ता ततोऽष्टमी ॥ ४३ ॥ त्रिहस्तं वेदिकाबन्धं विचित्रं कारयेद् बुधः । विस्ताराद् द्विगुणोच्छ्रायः स्कन्धोऽयं (वेदिकाबन्ध ?) ॥ ४४ ॥ स्कन्धादूर्ध्वं भवेद्³ घण्टा यदि वामलसारकम् । तद् वर्तुलं शुभं कार्यं घण्टा स्कन्धार्धमुच्छ्रिता ॥ ४५ ॥ घण्टाविस्तारै(तः) कुम्भं चतुर्थांशेन कारयेत् । प्रमाणं समुदायेन भूमिकानामुदाहृता(तम्) ॥ ४६ ॥ एकैकस्या(स्य) विशेषेण प्रविविच्योधुनोच्यते । प्रमाणेन विधातव्या (खंकारा ?) भूमिरङ्गिका⁷ ॥ ४७ ॥ (द्यं हस्तं तु ?) खुरकं द्विभागा पद्मपत्रिका । भागिका (कणकर्याण्यह्यंशं ?) कुमुदं¹⁰ छेद एव च ॥ ४८ ॥ त्र्यंशस्तद्द्विगुणः कण्ठः किङ्किणीपल्लवान्वितैः । तस्यार्धं पट्टिका कार्या तत्समा गिरिपत्रिका¹² ॥ ४९ ॥ (भाग्यंशावरण्डीतमध्ये पच्छीतेलाधर्भागिकी ?) । पूर्वप्रोक्तेन कण्ठेन समसूत्रा च सा भवेत् ॥ ५० ॥ छेदं तदूर्ध्वं कुर्वीत स्तरमेकं विचक्षणः । पुनः कण्ठः प्रदातव्यो भागद्वितयसम्मितः ॥ ५१ ॥ पट्टिका स्तरमेकं तु तत्समा गिरिपत्रिका । चतुर्गुणाथ त्रिगुणा कार्यावि(ति)लकनासिका ॥ ५२ ॥ स्तम्भद्वितयमध्ये तु पश्चाल्यं कर्म कारयेत् । शोभनं तत्तू कर्तव्यं युक्तं तिलकनाम(स)या ॥ ५३ ॥ पुनश्छेदः प्रदातव्यः पूर्वमानेन धीमता । जङ्घा सप्तस्तरा मेठी वरण्डी त्रिस्तरोर्ध्वतः¹⁶ ॥ ५४ ॥
१ द. स्तां । २ द. वधः । ३ द. ˚द्धन्तुं । ४ द. का । ५ द. रः । ६ द. विद्यातु । ७ द. षट्करा । ८ द. ता । ९ द. यां । १० द. दां । ११ द. ताः । १२ द. वर्त्तिता । १३ द. ती । १४ द. च । १५ द. में । १६ द. थो ।