समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 561, कुल 726 में से
संदर्भ में पढ़ें५०० समराङ्गणसूत्रधारे छेदं भागेन कुर्वीत कण्ठं तद्द्विगुणं ततः । (अर्धप्रस्तरं ?) पूर्ववत् पत्रिके द्वे तु घण्टा स्तरचतुष्टयम् ॥ ११५ ॥ कुर्वीत द्विस्तरं पद्मं शेषं पूर्वक्रमेण तु । अष्टमी भूमिका या तु सा कार्या शुभलक्षणा ॥ ११६ ॥ मेर्वादयो विंशतिरेवमुक्ताः प्रासादमुख्याः १++++++। भूम्यष्टकान्तांस्तदिमान् विदध्यात् स्याच्छिल्पिनां संसदि पूजनीयः ॥ ११७ ॥ इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे मेर्वादिविंशिकानागरप्रासादभूमिजा नामाध्यायस्त्रिषष्टितमः ॥
अथ दिग्भद्रादिप्रासादलक्षणं नाम चतुष्षष्टितमोऽध्यायः । प्रासादमथ ( वोरोयं २? ) वक्ष्यामो नामलक्षणैः । लक्षणै( ? )स्तेषु दिग्भद्रैः श्रीवत्सो वर्धमानकः ॥ १ ॥ नन्द्यावर्तश्चतुर्थः स्यात् पञ्चमो नन्दिवर्धनः । विमानश्च तथा पद्मो ३महाभद्राख्य एव च ॥ २ ॥ श्रीवर्धमानकाख्यश्च महा(पद्मतोऽपि वा ? ) । एकादशः पञ्चशालो ५ द्वादशः पृथिवीजयः ॥ ३ ॥ तत्र प्रागेव (६दिग्भद्रः श्रावणं ?) प्रतिपाद्यते । चतुरश्रीकृते क्षेत्रे नवभागविभाजिते ॥ ४ ॥ कोणो द्विभागविस्तारः प्रत्यङ्गौ भागिकौ स्मृतौ । शाला भागत्रया कार्या नासिकात्रयशोभिता ॥ ५ ॥ परस्परं विनिष्कासमर्धभागेन कारयेत् । कोणप्रत्यङ्गयोरन्तः शालाप्रत्यङ्गयोस्तथा ॥ ६ ॥ १ मु. पु. 'शुभलक्ष्णयुक्ताः' इति स्यात् । २ द. व; मुद्रित पुस्तके 'वावाटम्' इति स्यात् । ३ द. द्रा । ४ मुद्रित पुस्तके 'पद्माभिधाऽपि वा' इति स्यात् । द. महापद्मस्ततोऽपि वा । ५ द. ला । ६ मुद्रित पुस्तके 'दिग्भद्रलक्षणम्' इति स्यात् ।