समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 562, कुल 726 में से
संदर्भ में पढ़ेंदिग्भद्रादिप्रासादलक्षणं नाम चतुष्षष्टितमोऽध्यायः । ५०१ १षोडशांशेन कुर्वीत +++ सलिलान्तरम् । सीमास्याद् (स्य ) दशभिर्भागैः प्रविभज्य विधीयते ॥ ७ ॥ २++ का गर्भपादैः षड् भित्तयः स्युर्द्विभागिकाः । ( वर्धमानेनमथ ब्रूमो ? ) विस्ताराद् द्विगुणं हि तत् ॥ ८ ॥ द्वौ भागौ वेदिकाबन्धो जङ्घा ज्ञेया चतुष्पदा । ( ३शान्तापत्रा ? ) कपोताली सार्धंभागं समुच्छ्रिता ॥ ९ ॥ सार्धभागसमुच्छ्राया ४ कार्या प्रथमभूमिका । द्वितीया भूमिका ज्ञेया सार्धभागत्रयोदया ५ ॥ १० ॥ तृतीया च विधेया स्यात् सार्धभागद्वयोच्छ्रिता । उच्छालकं ६ च जङ्घा च भूमिकार्धं ७ विधीयते ॥ ११ ॥ कूटं ( नै ? ) चार्धतो देयं कर्मशोभासमन्वितम् । घण्टा भागत्रयोत्सेधा बहुमिश्राश्रिभिर्युता ॥ १२ ॥ कलशं स्थापयेदूर्ध्वं भागद्वयसमुच्छ्रितम् । बीजपूरकसंयुक्तं वर्तुलं पल्लवावृतम् ॥ १३ ॥ १०शिखराधंस्य कुर्वीत सपादमुदयं तथा । इमं दिग्भद्रसंज्ञं ११ यः प्रासादं कारयेत् पुमान् ॥ १४ ॥ शतक्रतुफलं सोऽपि लभते नात्र संशयः । लक्ष्म श्रीवत्ससंज्ञस्यै १२ प्रासादस्याभिधीयते ॥ १५ ॥ चतुरश्रीकृते क्षेत्रे भक्ते पञ्चदशांशकैः । ( अस्योच्छ्रायो सकारुह्यंशस्त्रं १३ क्षोणस्यादंशकैस्त्रिभिः ? ) ॥ १६ ॥ कर्णशालान्तरे कार्यौ द्वयंशौ प्रतिरथावुभौ । ( तयोरुभयोः सार्ध सादं तु मार्गौ निवेशयेत् ? ) ॥ १७ ॥ भागमेकं प्रविष्टौ च शाला भागत्रयात्मिका । निर्गमः स्यात् पदार्धेन गर्भस्तु नवभागिकः ॥ १८ ॥ ───────────────────────────────────────── १ द. ॰शः कासेन कु॰ । २ द. कार्यो गर्भः पदैः षड् भित्तयः स्युर्द्विभागकाः । ३ मुद्रित पुस्तके ‘ शतपत्रा ’ इति स्यात् । ४ द. र्ध । ५ द. यो । ६ द. श । ७ द. कश्च । ८ द. र्धे । ९ द. त्र । १० द. शिखराद्धं स्य चोर्द्ध्वस्य चोर्द्ध्वेन सूरसेनं विधीयते । प्रासादगर्भ मानेन हीनमष्टांशकेन वा ॥ विस्तारमस्य कुर्वीत । इति अधिकः पठ्यते । ११ द. ज्ञे । १२ द. थ । १३ द. स्त्र्यं ।