समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 586, कुल 726 में से
संदर्भ में पढ़ेंभूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । ५२५ तद् वृत्तं विभजेत् क्षेत्रं चतुःषष्ट्या पदैस्ततः । कर्त्तव्या विस्तरेणास्मिन्नष्टौ शालाश्चतुष्पदाः ॥ १६७ ॥ पल्लवी वृत्तसूत्रेण बाह्यतो भद्रकर्णिके । कर्णौ द्वौ द्वौ विधातव्यौ शालाद्वितयमध्यतः ॥ १६८ ॥ वि(द्वि)भागायामविस्तारौ सलिलान्तरभूषितौ । परिवर्तनतोऽन्योन्यं कोणान् कुर्वीत षोडश ॥ १६९ ॥ अष्टास्वपि च दिक्ष्वेवं(माना कर्मभिरन्विता ?)। गर्भो भित्तिश्च वेदी च जङ्घाप्रथमभूमिकाः ॥ १७० ॥ कर्त्तव्याः पूर्वमानेन स्वस्तिकोक्तेन तद्विदा । द्वादशांशो य उत्सेधो विंशत्या तत्र भाजितः ॥ १७१ ॥ सोऽ(त्रा)ष्टाविंशतिविधः कर्तव्य सू(स्त)त्र भूमिका । द्वितीया पञ्चभिर्भागैः पदपादोञ्झिताः पृथक् ॥ १७२ ॥ अन्याः स्युर्भूमयः पञ्च वेदी (व्यंघ्रिः ?) द्विभागिकाः (परा ?) । चतस्रो मञ्जरीः कुर्यान्नागरैः कर्मभिर्युताः ॥ १७३ ॥ चतस्रः पुनरन्याश्च युक्ता द्राविडकर्मभिः । घण्टा स्कन्धस्य विस्तारो वेदिकाकलशोच्छ्रयौ ॥ १७४ ॥ शूरसेनः शुकाद्या च स्तम्भिकाकूट(वि?)भक्तयः । रेखा(श्च) पूर्ववत् कार्याः प्रासादस्यास्य जानता ॥ १७५ ॥ प्रासादस्यास्य कर्त्ता यस्तथा कारयिता च यः । (प्राप्नुतामिव लोकं ?) तौ नित्यानन्दसुखोदयम् ॥ १७६ ॥ हर्म्यतलकप्रासादः ॥ अथातः सम्प्रवक्ष्यामि प्रासादमुदयाचलम् । चतुरश्रीकृते क्षेत्रे भुजाकर्णसमे शुभे ॥ १७७ ॥ ततः कर्णार्धसूत्रेण तस्मिन् वृत्तं समालिखेत् । वर्तुलं कारयेत् क्षेत्रमशीतिपद भाजितम् ॥ १७८ ॥ १ द. तः । २ द. यो । ३ द. कर्त्तव्यास्तथा । ४ द. सः । ५ द. मुद्रित पुस्तके 'प्राप्नुतः शिवलोकं इति स्यात् । ६ द. त । ७ द. मः । ८ द. ते ।