समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 593, कुल 726 में से
संदर्भ में पढ़ें१३२ समराङ्गणसूत्रधारे प्राग्ग्रीवपार्श्वयोर्दद्यादुच्छ्रायोर्ध्वपदस्थितौ(?)। ('वोधयेनौ वा?) कुर्वीत वर्धमानस्तथा भवेत् ॥ ४६ ॥ वर्धमानः ॥ पक्षद्वये नन्दनस्य भद्रे भिच्योभिवेष्टयेत् । गवाक्षकैरलङ्कुर्यान्न कुर्यादुदकान्तरम् ॥ ४७ ॥ स्वस्तिकोऽयं समाख्यातः सर्वलक्षणलक्षितः । स्वस्तिकः ॥ अथाभिधीयते सम्यक् सर्वतोभद्रलक्षणम् ॥ ४८ ॥ कर्णे कर्णे (लाङ्गले चेत्सार्ध ?) भागद्वयायतम् । कार्या परस्परं तेषु दारुक(र्म)विकल्पना ॥ ४९ ॥ भागेनैकेन निर्यातं भागषट्केन चायताम् । षड्दारुकद्वयं भद्रं कारयेद् (बाह्यवैस्थितम् ?) ॥ ५० ॥ सर्वतोभद्रः ॥ चतुरश्रीकृते क्षेत्रे + प्राग्भागैर्विभाजयेत् । त्यक्त्वा(तेस मध्ये ?) कर्णेष्वादध्याल्लाङ्गुलानि च ॥ ५१ ॥ चतुर्भागान्तरस्थानि षड्दारुकयुतानि च । कर्तव्यं भागनिष्क्रान्तं दिक्षु भद्रचतुष्टयम् ॥ ५२ ॥ चतुष्पदस्तदायामात् सर्वतोऽलिन्दको बहिः । प्रतिभद्रराणि कुर्वीत चतुर्भागायतानि च ॥ ५३ ॥ निर्गतानि(रभागेन ?) दिक्षु स्तम्भान्वितानि च । इत्येतैर्लक्षणैर्युक्तो महापद्मः प्रकीर्तितः ॥ ५४ ॥ महापद्मः ॥ चतुरश्रीकृते क्षेत्रे चतुष्कोणविभूषिते । अलिन्दावेष्टितं कुर्यात् प्राग्ग्रीवं मुखसंश्रितम् ॥ ५५ ॥ १ द. वातायनौ वा । २ द. क्षा । ३ द. वत् । ४ द. न्ते । ५ द. था । ६ द. म्भो ।