समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 595, कुल 726 में से
संदर्भ में पढ़ें५३४ समराङ्गणसूत्रधारे अथ सप्तविंशतिमण्डपलक्षणं नाम सप्तषष्टितमोऽध्यायः । इदानीमभिधीयन्ते मण्डपाः सप्तविंशतिः । प्रासादाद् द्विगुणं कुर्यात् कनिष्ठं तत्र मण्डपम् ॥ १ ॥ पादोन्द्विगुणं मध्यं प्रासादे तु कनीयसि । तस्मिन्नेव कनीयांसं विदध्यात् सार्धमानतः ॥ २ ॥ पादोन्द्विगुणः सार्धः सपादश्चेति मध्यमे । सार्धः सपादस्तुल्यश्चेत्युत्तमायाः स्युरुत्तमे ॥ ३ ॥ सपादद्विगुणाः सार्धद्विगुणाः सान्तरोद्भवाः । क्षुद्रप्रासादकेषु स्युर्मण्डपा बहवोऽपरे ॥ ४ ॥ क्षेत्रालाभे पुनरिमान् सर्वान् सर्वेषु योजयेत् । दैर्ध्यादैर्घ्येण गृह्णीयाद् विस्तृती +++ तथा ॥ ५ ॥ प्रमाणं मण्डपे(कार्ये ?) वलभ्यां गरुडेऽपि च । चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते ॥ ६ ॥ भागैश्चतुर्भिर्भद्रं स्याद् द्वौ भागौ प्रतिभद्रकम् । अग्रतः पृष्ठतो वापि निर्गमो भागिको भवेत् ॥ ७ ॥ भद्राणां निर्गमो भागं सार्धभागमथापि वा । प्रासादस्य त्रिभागेन चतुर्भागेन वा भवेत् ॥ ८ ॥ अर्धेनाथ षडंशेन पञ्चांशेनाथ निर्गतिः । प्रासादानां समा कार्या पादोना वा प्रमाणतः ॥ ९ ॥ कार्या त्रिभागहीना वा मण्डपास्तु समैः क्षणैः । स्वविस्तारसमं भद्रे मुखे चैषा⁴ प्रकीर्तिता⁵ ॥ १० ॥ कर्णा द्विभागिका ज्ञेयास्तेषां कोणचतुष्टये । वामदक्षिणभागाभ्यां सह भद्रं षडंशकम् ॥ ११ ॥ प्रतिभद्रे नचैतस्मिन् विदध्यादग्रपृष्ठयोः । चतुःषष्टिधरोऽयं स्यात् पुष्पको नाम मण्डपः ॥ १२ ॥ पुष्पकः ॥ १ द. द्रः । २ द. विस्तृत्याद्विस्तृतिः तथा । ३ द. या । ४ द. षां । ५ द. ताः । ६ द. पुष्यकः ।