समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 609, कुल 726 में से
संदर्भ में पढ़ें२४८ समराङ्गणसूत्रधारे कूटारं + त्रिभागेन वेदेरूर्ध्वं मनोहरम् । करमात्रसमुत्सेधं कर्तव्यं मत्तवारणम् ॥ ५३॥ सुखलीलाशनार्थं तत् सप्रवेशं सनिर्गमम् । (गन्द्राग्रे सुकाग्रे ?) च प्रतोल्यग्रे तथैव च । तोरणं त्रिविधं ज्ञेयं कनीयोमध्यमोत्तमम् ॥ ५४॥ इत्थं जगत्यायतनस्य सम्यक् प्रासादपीठस्य च सम्प्रदिष्टम् । विधानमेतज्जगतीषु (नार्त- मन्यथाभिदधोः सह लक्षणानाम् ?) ॥ ५५॥ इति श्रीमदाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः ॥ अथ जगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः । वसुधा वसुधारा ( च) वहन्ती च तथापरे (रा) । श्रीधरा भद्रिका³ चैव एकभद्रा द्विभद्रिका ॥ १॥ त्रिभद्रिका भद्रमाला वैमानी भ्रमरावली । स्वस्तिका हरमाला च कुलशीला महीधरी ॥ २॥ मन्दारमालिकानाङ्गलेखाथोत्सवमालिका । ⁴नागारामा मारभव्या तथा च मकरध्वजा ॥ ३॥ नन्द्यावर्ता (नं ?) च भूपाला पारिजातकमञ्जरी । चूडामणिप्रभा चैव तथा श्रवणमञ्जरी ॥ ४॥ विश्वरूपादिकमला तथा त्रैलोक्यसुन्दरी । गन्धर्वबालिका चान्या विद्याधरकुमारिका ॥ ५॥ सुभद्रा च समाख्याता तथान्या सिंहपञ्जरा । ( ⁶वज्रपङ्कुरवाद्या: ? ) गन्धर्वनगरी तथा ॥ ६॥ १ द. मा । २ द. ध्मः । ३ द. की । ४ द. नागागानामारभ्यर्च्य तथा च मकरध्वज । ५ द. नां । ६ द. वज्रपङ्कुरवाद्यः गंधर्व° ।