समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 610, कुल 726 में से
संदर्भ में पढ़ेंजगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः । २४९ तथामरावती ज्ञेया रत्नचूंमा च नामतः । त्रिदशेन्द्रसभा चैव तथान्या देवयन्त्रिका ॥ ७ ॥ चत्वारिंशद्द्वि( दि )तीयं स्यादेकोना नामसंख्यया । (यैमलाम्बरधरा नेत्रा दद्युडाः खण्डिला सिता ?) ॥ ८ ॥ अथातः कथ्यते तासां प्रविभागो यथा यथा । जगतीनां क्रमेणैव शालानां च यथोदितः ॥ ९ ॥ चतुरश्रीकृते क्षेत्रे (षडेते स ?)विभाजिते । समं वा सार्धयुक्ते वा ⁶गुणेऽथ सुखायतम्( ? ) ॥ १० ॥ मण्डपेनोज्झिते कुर्याज्जगतीमनुसारतः । द्वौ भागौ मध्यदेशे स्यात् प्रासादो भागिको भ्रमः ॥ ११ ॥ (कर्णदृशां समुज्य ?) पार्श्वयोरुभयोः पुरः । श्रीखण्डिका विधातव्याः प्रासादमं + + मिमाम् (?) ॥ १२ ॥ मत्तवारणसंयुक्ता प्रतोत्यादिविभूषिता । प्रथमे( मा ) च समाख्याता जगती वसुधाभिधा ॥ १३ ॥ वसुधा वसुधारा स्यात् समायुक्ताग्रशालया । निर्गमः पुरतः कार्यः प्रासादस्य प्रमाणतः ॥ १४ ॥
- विस्तारस्तथा कार्यस्तं चतुर्धा विभाजयेत् । भागिका भ्रमणी कार्या शेषशाला द्विभागिका ॥ १५ ॥ शुण्डिका चापि पूर्वोक्तमानेनैवायता⁷ भवेत् । वसुधा च पुनः कर्णशालाभ्यां राजसिंहिका ॥ १६ ॥ प्रासादार्धेन ते कार्ये( र्ये ) कर्णयोरुभयोरपि । स्वमानार्धेन च तयोर्भ्रमणीं परिकल्पयेत् ॥ १७ ॥ मूलप्रासादविस्तारा कर्तव्या शुण्डिका पुरा । शाला स्याद् वसुधा⁸ राजहंसाः( ? ) पुरो यदा ॥ १८ ॥ १ द. चूडा । २ द. ममा । ३ द. न्य । ४ द. द्विदि । ५ मु. पाठस्तु 'यमलाम्बुधरा नेत्रा दोर्दण्डा खण्डला सिता' इति स्यात् । ६ द. द्विगुणे । ७ द. शुंडिका स विं° । ८ द. तो । ९ द. रा च ।