समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 627, कुल 726 में से
संदर्भ में पढ़ें५६६ समराङ्गणसूत्रधारे द्विभागायामविस्तारं मध्ये शालाद्वयं भवेत् । पद्मगर्भेयमित्युक्ता प्रजापतिमनःप्रिया ॥ २०५ ॥ भवेतो१( दा )र्यादिदेवीनां सदा चित्र( त्त )प्रसादिनी । विधाय( क्षेत्रमष्टास्रतवदर्धायामविस्तृतौ ? )२ ॥ २०६ ॥ मध्ये देवगृहं कार्यं तदर्धेन भ्रमो बहिः । ३भद्रं भवेद् द्वादशभिस्तैश्चतुर्भिर्विनिर्गमः ॥ २०७ ॥ तस्य( स्यात् ? ) भद्राणां निर्गमोऽपि चतुष्पदः । ४विस्तारः षट्पदस्तेषां चतुर्भिस्तं विभाजयेत् ॥ २०८ ॥ भागार्धेन ( च ) शाला स्याद् भागत्रितय( स ? )मायात( यता ) । भ्रमश्च स्या + ( त्तु )कर्तव्यो भागं तत्पार्श्वयोः ( रुद्राया ? )॥२०९॥ द्विभागायामविस्तारा( रे ) शाले स्यातां पदभ्रमे । इयमंशुमती प्रोक्ता जगती शुभलक्षणा ॥ २१०॥ विधाय क्षेत्रमष्टाश्रि तदर्धायामविस्तृति । मध्ये देवगृहं कार्यं तदर्धेन भ्रमो बहिः ॥ २११॥ प्रासादसमविस्तारं भद्रं कृत्वा ततो भजेत् । चतुर्दशभिरस्य ( स्यान्निगिर्यमो ? ) दशभिश्च तैः ॥ २१२॥ मौलिकभ्रमणस्यान्ते त्रिपदायतविस्तृता९ । शालातिशोभना कार्या सार्धभागभ्रमान्विता ॥ २१३ ॥ द्विपदायामविस्तारे भागिकभ्रमणान्विते । कर्तव्ये पार्श्वयोस्तस्याः शाले द्वे चारुदर्शने ॥ २१४॥ प्रतिभद्रं विधातव्यं भागपञ्चकविस्तृतम् । भागत्रयं प्रविष्टं च तत्र शाला त्रिभागिकी ॥ २१५॥ भागद्वितयविस्तारा भागिकभ्रमणान्विता । पार्श्वयोः प्रतिभद्रस्य कर्णिके भागनिर्गमे ॥ २१६ ॥ १ द. द्वा । २ मुद्रित पुस्तके ' क्षेत्रमष्टाश्रि तदर्धायामविस्तृति' इति स्यात् । ३ द. भद्रयाय । ४ द. विस्तरे । ५ द. णः । ६ द. प्रदोद सं० । ७ द. वे । ८ मुद्रित पुस्तके ' स्यान्निर्गमो ' इति स्यात् । ९ द. ताः ।