भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 628, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 628

लिङ्गपीठप्रतिमालक्षणं नाम सप्ततितमोऽध्यायः । ५६७ सार्धभागायते स्यातां कर्णाः शालायुगान्विताः । पूर्ववच्छुण्डिकार्यं च कमलेयमुदाहृता¹ ॥ २१७॥ चतुर्दशविभक्तासु सप्तस्वस्तिषु( ? ) कल्पयेत् । निर्गमायामतुल्यासु² शालाः पञ्च पृथक् पृथक् ॥ २१८॥ अग्रभद्रे तु कर्तव्यं शालात्रितयमुत्तमम् । इति विज्ञेय( ज्ञैः ) समाख्याता शाला वज्रधरप्रिया ॥ २१९॥ इत्थं जगत्यश्चतुरश्रसंस्थाः ( ³स्पदायनों ? ) वर्तुलसन्निवेशाः । ( वृत्तायता धस्तियुताश्चयः सम्यग् ? ) जङ्घाः सदा शिल्पभिरप्रमत्तैः ॥ २२० ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे जगतीलक्षणाध्यायो नामैकोनसप्ततितमः ॥ अथ लिङ्गपीठप्रतिमालक्षणं नाम सप्ततितमोऽध्यायः । अथ प्रमाणं लिङ्गानां लक्षणं चाभिधीयते । ( लोहं हस्तत्रिभागेन कनीयसम् ? ) ॥ १ ॥ ( ⁶व्यंशवृद्धानावैवं स्युराहस्ताँत्रतवाविधे ? ) । ( ह्रस्वमध्योत्तमाख्यानि त्रीणि त्रीण्यल्पकादिभिः ॥ २ ॥ लिङ्गानामभिः प्रासाद्स्थानुसारतः ? ) । अतश्च द्विगुणानि( स्युंवारुणाजानि प्रमाणतः ? ) ॥ ३ ॥ ( त्रिर्गुणान्यस्माज्जातानि ? ) मृत्तिकाप्रभवानि च । स्वस्य स्वस्य कनिष्ठस्य पदेन परिवर्तनात् ॥ ४ ॥ १ द. तः । २ द. स्तु । ३ मुद्रित पुस्तके पाठभेदस्तु ‘स्तदायता’ इति स्यान् । ४ द. दांता । ५ द. प्रतों ‘ ........ ’ इत्येवास्ति । ६ मुद्रित पुस्तके ‘व्यंशवृद्धा नवैवं स्युरा हस्तत्रितयावधेः’ इति स्यान् । द. त्र्यं । ७ द. नैवैवं । ८ द. सूत्रे तथा विधे ; ९ द. लिङ्गिनाममभिः प्राहुः प्रा° । १० द. वारुण्या । मुद्रित पुस्तके ‘स्युर्दाहजानि प्रमाणतः’ इति स्यान् । ११ मुद्रित पुस्तके ‘त्रिगुणान्यश्मजातानि’ इति स्यान् । १२ द. तिकी ।