भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 645, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 645

५८४ समराङ्गणसूत्रधारे अथ भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः । इदानीं वर्तिकालक्ष्म भूमिबन्धंश्च कथ्यते । गुल्मान्तरे शुभे क्षेत्रे पद्मिन्यां सरितस्तटे ॥ १ ॥ पर्वतानां च कक्षेषु वापि( का )काननान्तरे । भौमा लवणपिण्डाः स्युर्मूलेषु च महीरुहाम् ॥ २ ॥ क्षेत्रेष्वेतेषु या जाताः स्थिराः श्लक्ष्णा(श्च) पाण्डराः । ग्राह्या ( मृद्भावसासेष्वा ? ) विज्ञेया कर( ङ्क )शर्करा ॥ ३ ॥ क्षेत्राणामानुपूर्व्येण मृत्तिका कथिता शुभा । पेषयेत् कुट्टयित्वा तां ततः कल्कं समाचरेत् ॥ ४ ॥ शालिभक्तस्य दातव्यस्तत्र भागो यथोदितः । ग्रीष्मर्त्तौ सप्तमं भागं शीतकाले च पञ्चमम् ॥ ५ ॥ षष्ठं शरदि वर्षासु चतुर्थं भागमानयेत् । वर्तिकाबन्धनार्था( यँदार्थ )मायान्ति तेन ता(:) ॥ ६ ॥ ( अग्रायौ शालिवक्त्राभा यवं यव्यां सुखगृहम् । कुर्कुटाराग्रसदृशी ? ) कर्म भागविकल्पतः ॥ ७ ॥ शिक्षाकालेऽङ्गुलद्वन्द्वं प्रमाणेन विधीयते । कुथरेखासु शस्यन्ते वर्ति( काः )त्र्यङ्गुलोन्मिताः ॥ ८ ॥ ( पटा ? )रेखासु कुर्वीत मानेन चतुरङ्गुर्लाः । इदानीमभिधास्यामो वसुधाबन्धनक्रियाम् ॥ ९ ॥ पक्षिका चैव कूंढांश्च +++ पट एव च । तस्य तस्य (किभान ?) भूमिबन्धो निगद्यते ॥ १० ॥ पुणयनक्षत्रवारेषु माङ्गल्यदिवसेषु च । (क्षतो वासो भुक्ता ) च कर्ता भर्ताथ शिक्षकः ॥ ११ ॥

१ द. न्धै । २ द. स्थित श्लक्ष्मणपांशुराः । ३ द. सद्या मृद्वाच्च सा सेष्वा विं । ४ द. य; मुद्रित पुस्तके 'यदार्थ्य' इति स्यात् । ५ द. याः । ६ द. लः । ७ द. कुट्टाश्च पटयेव च । ८ मुद्रित पुस्तके 'कृतोपवासो भक्त्या' इति स्यात् ।