समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 646, कुल 726 में से
संदर्भ में पढ़ेंभूमिबन्धो नाम द्विसप्ततितमोऽध्यायः । ५८५ अनेकवर्णैः कुसुमैर्गन्धैः (न कृपापाः ?) । नानाधूपैः सुरभिभिरर्चयित्वारभेत ताम् ॥ १२ ॥ [ नवसूत्रात्तुलसृद्द्स्तितजलेन समं समम् । नवत्वोमात्सदृशं वृत्तैनभविद्वात्यपरोक्रियः ॥ १३ ॥ लिङ्गसूत्रविनीक्षेतानिकटं सहतं नवः । अनुत्तमनिस्मं च कुर्याद् यावत् क्षितौ समम् ॥ १४ ॥ सुस्थितं जलवक्षायं ? ] सम्यगालोक्य धीमता । कृत्वा भूमिक्रियामेतां पश्चाद् बन्धनमाचरेत् ॥ १५ ॥ (लुचिमलांस्तिस्व ?) व्रीहितण्डुलसन्निभाम् । संगृस्य(ह्य) तीर्थमथवा पिष्ट्वा कल्कं समाचरेत् ॥ १६ ॥ तेन पिण्डं प्रकुर्वीत (शोषेयेच्चतमात्तयो ?) (शर्वयेत् ?) कल्कयेद् येन (व्यासाह्यर्षव्यस्तुया ?) ॥ १७ ॥ एवमेव (चतुष्कोन्ता ?) सप्त वारान् प्रघर्षयेत् । हस्तेन संमृशेत् पश्चाद् यथा (लोनं ?) च जायते ॥ १८ ॥ अथवा शिक्षिकाभूमौ (ख)रबन्धनमाचरेत् । पूर्वोदितस्य कल्कस्य निर्यासे बन्धनं क्षिपेत् ॥ १९ ॥ पञ्चभागप्रमाणेन ग्रीष्मकालेषु शस्यते । शरद्यंशत्रयं सार्धं त्रीनंशा समागमम् ?) ॥ २० ॥ वर्षाकाले हि भागेन प्रदद्यादिति निश्चयः । पञ्चभागप्रमाणेन ग्रीष्मसं +++++ ॥ २१ ॥ (बन्धानयं प्रकुर्वीतापपूर्वकं धिनाक्षितो ?) । लो(ले)पयेद् रोमकूर्चेण शुष्कां शुष्कामनुक्रमात् ॥ २२ ॥ १ द. सवरु । २ द. त्व । ३ द. नं । ४ द. परो क्रियाः । ५ द. न्न । ६ द. सम्रस्यतार्था । ७ द. शोषये च तसातयो; मुद्रित पुस्तके ‘शोषयेच्च तमातपे’ इति स्यात् । ८ मुद्रित पुस्तके ‘श्रपयेदि’ति स्यात् । ९ द. पाद्य । १० द. ष्का । ११ द. वारो । १२ द. स्पृं । १३ द. मौ । १४ द. नं स्या । १५ द. काले कालेषु इत्ययं पाठः । १६ द. सिरा । १७ मुद्रित पुस्तके ‘बन्धने च प्रकुर्वीत पूर्वोक्त- विधिना क्षितौ’ इति स्यात् । वा. ७४