समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 657, कुल 726 में से
संदर्भ में पढ़ें५९६ समराङ्गणसूत्रधारे तारकाक्षित्रिभागेन कर्तव्या सुप्रतिष्ठिता । तारकायास्ततो मध्ये ज्योतिरुभ्यंशेन कल्पयेत् ॥ ३६ ॥ ( १भ्रुवौ व्यक्षिरामे कुर्यादक्षिमांसयो । मंकाराणा स्युरुच्चाता सम्यगालिखेत् ? ) । एवं विधानतो योज्यं रूपजातमशेषतः ॥ ३७ ॥ जातीनां वशत इति प्रमाणमुक्तं (दिवाँ^३दिष्वखिलमुक्तं देवा ? )मिदं स्फुटं विदित्वा । यश्चित्रं लिखति बहुप्रकारमस्मै^४ प्राधान्यं वितरति चित्रकृत्समूहः ॥ ३८ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते^५ समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे मानोत्पत्तिर्नाम चतुः(पञ्च)सप्ततितमोऽध्यायः ! अथ प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः । प्रतिमानामथ ब्रूमो लक्षणं द्रव्यमेव च । सुवर्णरूप्यता(म्राः^६ स्युर्दारुलेखानि ?) शक्तितः ॥ १ ॥ चित्रं चेति विनिर्दिष्टं द्रव्यमर्चासु सप्तधा । सुवर्णं पुष्टिकृद् विद्याद् रजतं कीर्तिवर्धनम् ॥ २ ॥ प्रजाविवृद्धिदं^७(दं) ताम्रं शैलेयं भूजयावहम् । आयुष्यं दावरच(रवं^८) द्रव्यं लेख्यचित्रे धनावहे ॥ ३ ॥ प्रारभेद् विधिना प्राज्ञो ब्रह्मचारी जितेन्द्रियः । हविष्यनियताहारो^१० जपहोमपरायणः ॥ ४ ॥ शयानो धरणीपृष्ठे (कुशास्तरणे^११ तदन्तरम् ?)* । अप्राप्तौया(?)^१२ द्वयोर्मध्यं भवेत् पञ्चाक्षिसम्मितम् ॥ ५ ॥ १ द. भु । २ द. जानीतां । ३ मुद्रित पुस्तके ‘दिव्यादिष्वखिल’ इति स्यात् । ४ द. स्यै । ५ द. इतः पूर्वं परमेश्वर इत्यधिकः पाठः । ६ मुद्रित पुस्तके ‘म्राम्रशारुलेख्यानि’ इति स्यात् । ७ द. °द्वये तोम्रशै° । ८ द. त्र । ९ द. प्रारेमे वि° । १० द. °रा जयं होमं प° । ११ द. ण । १२ द. °प्रयोः ।
- इत उत्तरं वाक्यपरिसमाप्त्यदर्शनात् प्रक्रमान्तरसङ्क्रमणाच्च कियांश्चिद् ग्रन्थपातः संभाव्यते ।