समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 682, कुल 726 में से
संदर्भ में पढ़ेंऋज्वागतादिस्थानलक्षणं नामैकोनाशीतितमोऽध्यायः । ६२१ परपादतले (स्तम्भं ?) यत् तिर्यक् सुप्रतिष्ठितम् । (तत्प्राक्प्रदेशस्योर्ध्वं ?) सार्धया कलया भवेत् ॥ १२१ ॥ (प्राग्भङ्गोऽङ्गुष्ठमूलेच्छस्तत्रास्वीया ?) कनिष्ठिका । (कलामात्रं निजाङ्गुष्ठादंधौसागं ?) प्रपद्यते ॥ १२२ ॥ (यत् पराङ्गुल्लम्बसूत्रं प्रतिपद्यते ?) । यत् पराङ्गुष्ठमूलोत्थं लम्बसूत्रं प्रपद्यते ?) । (मध्येन पूर्वभागाप्ति मैबन्धाङ्गुष्ठकस्य तँत् ?) ॥ १२३ ॥ पूर्वपार्ष्णितलादूर्ध्वं विदध्यादङ्गुलत्रये । पाष्णेः⁷ परस्य पादस्य पूर्वपादं⁸ तिरस्कृतम् ॥ १२४ ॥ अध्यर्धाक्षं यथाशास्त्रमेवं स्थानकमालिखेत् । अथ पार्श्वगतं नासे(म)स्थान(नं)पञ्चममुच्यते ॥ १२५ ॥ व्यावर्तितमुखस्यान्ते ब्रह्मसूत्रं विधीयते । ललाटबाह्यलेखां च सूत्रस्पृष्टां प्रदर्शयेत् ॥ १२६ ॥ सूत्रात्¹⁰ तु नासिकावंशः (संवृद्ध्य द्व्यक्षमानतः ?) । अपाङ्गो¹¹ द्विकले सूत्रात् कर्णौ (यंशात् ?) कलाद्वये ॥ १२७ ॥ कर्णौ द्व्यङ्गुलविस्तारः शिरःपृष्ठं कला ततः( ?) । अस्य मध्यगतं सूत्रमास्यार्धं स्थापयेत् ततः ॥ १२८ ॥ अङ्गुलो(ले) चिबुकं सूत्राद्धनुमध्यं चतुर्यवे । सार्धाङ्गुले ततः कण्ठवर्तिग्रीवाङ्गुले नतः ॥ १२९ ॥ अङ्गुलेन ततो हिक्का¹² चतुर्भिर्र्ब्रह्मसूत्रतः । मूर्ध्ना श्रवणपाल्यन्तेनैति सूत्रं तदुच्यते ॥ १३० ॥
१ द. म्बं । २ द. पादे । ३ द. ०दधोभागं । ४ द. लमूलोत्थ ल० । ५ द. संबद्धाङ्गु० । ६ द. च । ७ द. र्ष्णि । ८ द. ०र्वापाद । ९ द. प्रतौ नास्ति । १० द. सूत्रानुनासिका वंशः स्माध्य्यर्द्धाक्षमानतः । ११ द. 'अपाङ्गो......कलाततः' नास्ति । १२ द. ष्का ।