समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 687, कुल 726 में से
संदर्भ में पढ़ें६२६ समराङ्गणसूत्रधारे
अथ वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः । अथान्यान्यभिधीयन्ते चेष्टास्थानान्यनेक²शः । यानि ज्ञात्वा न मुह्यन्ति +¹+ चित्रविचक्षणाः ॥ १ ॥ वैष्णवं समपादं च वैशाखं मण्डलं तथा । प्रत्यालीढम³थालीढं स्थानान्येतानि (ल⁴क्षणम् ? ) ॥ २ ॥ (अश्वक्रामत्तमथायाम⁵विहितनाकत्रयं स्त्रीणाम् ? ) । ⁶द्वौ तालावर्धतालश्च पादयोरन्तरं भवेत् ॥ ३ ॥ तयोः समन्वितस्त्वेकस्त्र्यश्रः पक्षस्थितोऽपरः । किञ्चिदञ्चितजङ्घं च (श⁷ङ्गात्रभोज्यचसंयुक्तम् ? ) ॥ ४ ॥ वैष्णव⁸स्थानमेतद्धि विष्णुरत्राधिदैवतम् । समपादे समौ पादौ तालमात्रान्तरस्थितौ ॥ ५ ॥ स्वभावसौष्ठ¹⁰वोपेतौ ब्रह्मा¹¹ चात्राधिदैवतम् । तालास्त्रयोऽर्धतालश्च पादयोरन्तरं भवेत् ॥ ६ ॥ त्र्य¹²श्रमॆकं द्वितीयं च पादं¹³ पक्षस्थितं लिखेत् । (नैपमोरु¹⁴ ? ) भवतत्येवं स्थानं वैशाखसंज्ञितम् ॥ ७ ॥ विशाखो भगवानस्य स्थानकस्याधिदैवतम् । ऐन्द्र(न्द्रं ) स्यान्मण्डलं पादौ चतुर्मू(स्ता )लान्तरस्थितौ ॥ ८ ॥ त्र्यस्रै¹⁵(श्र )पक्षस्थित(नि )श्चैव कटिजानुसमा तथा । प्रसार्य दक्षिणं पादं पञ्चतालान्तरस्थितम् ॥ ९⁹ ॥ आलीढं स्थानकं कुर्याद् रु¹⁶द्रश्चात्राधिदैवतम् । कुञ्चितं दक्षिणं कृत्वा वामपादं प्रसारयेत् ॥ १० ॥ आलीढं परिवर्त(र्ते )न प्रत्यालीढमिति स्मृत¹⁷म् । दक्षिणस्तत्र समः(?) पादस्त्र्यश्रः पक्षस्थितोऽपरः ॥ ११ ॥
१ द. चित्रे । २ द. णः । ३ द. मयालीड । ४ मुद्रित पुस्तके 'लक्षयेन्' इति स्यात् । ५ द. ॰यामवहित्यं स्थानकत्रयं स्त्रीणाम् । ६ द. वै । ७ द. गात्रा भाव्यवसंयुक्तम् । ८ द. वं । ९ द. ष्टा । १० द. भा । ११ द. ह्मा । १२ द. त्र्यस्र । १३ द. 'दं' स्थाने 'दौ' पाठः । १४ द. निश्मौरु । १५ द. स्रः । १६ द. भद्रश्चात्रोधिदैवतं । १७ द. तः ।