समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 686, कुल 726 में से
संदर्भ में पढ़ेंऋज्वागतादिस्थानलक्षणं नामैकोनाशीतितमोऽध्यायः । ६२९ नलकश्च भवेद् गर्भात् तिर्यगस्य षडङ्गुलः । गर्भसूत्रात्तु नलकः पृष्ठतश्चतुरङ्गुलः ॥ १६४ ॥ सूत्रान्तोऽङ्गुल्यपर्यन्तः( ? ) स्यात् सार्धैः षड्भिरङ्गुलैः । अक्षः( ? ) सार्धाङ्गुले सूत्राद् भवेद् विस्तृतदर्शनात् ॥ १६५ ॥ चतुर्दशाङ्गुला (ल) : पादो दैर्घ्येणात्र प्रकीर्तितः । गर्भादष्टाङ्गुलाग्रोऽसौ पश्चादपि षडङ्गुलः ॥ १६६ ॥ जानुनोरक्षश्च स्यादन्तरंमङ्गुलं मिथः( ? ) । ऊर्वोरङ्गुलमुद्दिष्टं ( न र्मलयो ?)श्चतुरङ्गुलम् ॥ १६७ ॥ ऋज्वागतमिति प्रोक्त( र्मद्वजौ ? ) मध्यसूत्रतः । ( परिवर्ततगुलगं सावावप्यङ्गुलद्वयम् ॥ १६८ ॥ तस्मात् सावेस्त सार्धाक्ष्ये ?) त्वङ्गुले परिवर्त्तनी । +++ भित्तिकॆ प्रोक्तं परावृत्तेऽप्ययं विधिः ॥ १६९ ॥ ऋज्वागतार्धर्जुकसाचिसंज्ञोऽध्यर्धाक्षपार्श्वागतसंज्ञकानि । तेषां परावृत्तचतुष्टयं च प्रोक्तान्यथो विंशति(रं)न्तराणि ॥ १७० ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे ऋज्वागतादिस्थानलक्षणं नामाष्टसप्त( मैकोनाशी )तितमोऽध्यायः ॥ १ द. ज्ञ । २ द. ना । ३ द. दा । ४ द. ताः । ५ द. ग्रे । ६ द. ˚रं त्र्यं˚ । ७ द. र्द्धो । ८ द. प्रतौ नास्ति । ९ द. 'मर्धजौ' इति स्यात् । १० द. परिवर्तौ गुलग । ११ द. लं । १२ द. त्त । १३ द. संशीर्धाक्ष˚ । १४ द. क्तो । १५ द. तराणि । १६ द. इतः पूर्वं 'परमेश्वर' इति पाठः । १७ द. मः । वा. ७९