भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 685, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 685

(अङ्गुल्यन्यादोरासूत्रं¹?) यथाभागं यथोचितम् । आयामस्यार्धदेशे च विस्तारो²स्याग्रतोऽष्टभिः ॥ १५३ ॥ ++++++ (पृष्ठप्रदेशार्द्ध+मङ्कयेत्³?) । तन्मध्यगामिनी स्त(सू⁴)त्रे न्यस्येदायतविस्तृते ॥ १५४ ॥ अङ्गानां स्यात् तदवधिर्निर्गमो (वेष्टमाणकः । सृन्त्योगतो गर्भसूत्रादित्यादि?) ॥ १५५ ॥ स्तनगर्भौ गर्भसूत्राद् विस्तृतो(तौ⁵) स्यात् षडङ्गुलः । षडङ्गुलः स्यात् स्तनयोस्तिर्यग् गर्भ⁶(वि)निर्गमः ॥ १५६ ॥ तिर्यग् गर्भा(त्⁷) पृष्ठपक्षौ स्फिज्वावपि दशाङ्गुले । ने(न)वाङ्गुले पृष्ठवंशः स्फिजो(:)सप्ताङ्गुलेऽन्तरम्(रे⁸) ॥ १५७ ॥ कक्षाया मूलमायामाद् गर्भतश्च दशाङ्गुलम् । निर्गमोऽग्रेऽङ्गुलं तस्य सूत्रात् सप्त च पृष्ठतः ॥ १५८ ॥ गर्भसूत्रात् ततस्तिर्यक् पादांशोऽष्टादशाङ्गुलः । गर्भाद् यवप्रदेशश्च(?) भवेत् पञ्चभिरङ्गुलैः ॥ १५९ ॥ अष्टाभिर्जठरं गर्भात् पार्श्वयोः पुरतोऽपि च । उदरस्य + मं पृष्ठं पश्चात् सप्तभिरङ्गुलैः ॥ १६० ॥ सार्धे द्वा(घैर्द्वा)दशभिर्मूलमूर्वो(रथौ?) मतोऽङ्गुलैः । पञ्चाङ्गुलं निर्गमस्तत् + स्यात् सप्त च पृष्ठतः ॥ १६१ ॥ ऊरुमूलस्य पृष्ठांतं तु स्फिजौ त्र्यङ्गुलनिर्गतौ । मेढ्रैमग्रे ततो ज्ञेयं गर्भसूत्रात् षडङ्गुले¹² ॥ १६२ ॥ तिर्यक्सूत्राज्जानुपार्श्वं सार्धे(धैर्¹³)नवभिरङ्गुलै । आयामसूत्राज्जान्वन्तपृष्ठेऽग्रे चतुरङ्गुलः(?) ॥ १६३ ॥


१ द. ˚दोरोसूत्रं । २ द. रे । ३ द. पृष्ठ प्रदेशन्यस्येदाय द्विगुणानि च । अङ्गुत्याद्गर्भमंकयेत् । ४ द. सू । ५ द. ष । ६ द. भीद्दि । ७ द. स्यादंशो । ८ द. प्रतौ नास्ति । ९ द. त । १० द. नु । ११ द. मेद्रं˚ । १२ द. ङ्गुले । १३ द. प्रतौ नास्ति ।

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र) · पृष्ठ 685, कुल 726 में से · BharatKosha