भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 702, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 702

पताकादिचतुष्षष्टिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः । ६४१ चलिताङ्गुलिना हस्तद्वयेना¹(द्यो नति + स्या ?)। अधोमुखेन वा श्रो(स्रो)तो दर्शयेत् सर्पता पुरः ॥ ५४ ॥ ऊर्ध्वावस्थितिना गङ्गास्रोतैः³ सूत्रनिभेन च । अधो ⁴विनि(न)मता पाणिद्वितयेन प्रदर्शना(ये)त् ॥ ५५ ॥ पुरः प्रसर्पतैकेन चलता विकृतानमः(नः)। हस्तेन सर्पाभिनयं विदधीत विचक्षणः ॥ ५६ ॥ अङ्गुलिद्वितयेनाधोमुखेनाश्रुप्रमार्जनम् । कुर्यात् क⁵नीनिकादेशसर्पिणा विनताननः ॥ ५७ ॥ अवा(ध)श्चार्थं च सर्पन्त्या भालदेशे त्वनामया । तिलकं रचयेदेका( ⁶सुन्दरस्य भ्रलतां शये ?) ॥ ५८ ॥ तया (चैवा)⁷नामिकाया कार्या (स्याद् ) रोचनाक्रिया । आलभ्य रोचनां मूर्ध्नि त⁹थैव च विविक्षिपेत (?) ॥ ५९ ॥ तयैव च विधातव्यमल (¹¹कैनो ?) प्रदर्शनम् । उत्तानितेन हासश्च त्रिपताकेन पाणिना ॥ ६० ॥ (¹²वँदनेस्याग्रह ?)स्तिर्यगङ्गुलिद्वयचालनात् । त्रिपताकाङ्गुलीभ्यां तु चलिताभ्यामुरोगतः ॥ ६१ ॥ शिखण्डिशारिकाकार(क)कोकिलादीन् प्रदर्शयेत् । हस्तस्यानुगतां दृष्टिं (¹³त्रैलोक्ये ?) ++ कारयेत् ॥ ६२ ॥ इति ¹⁴त्रिपताकः ॥ त्रिपताके यदा हस्ते भवेद् पृष्टावलोकिनी । तर्जनी मध्यमायाश्च तदासौ कर्तरीमुखः ॥ ६३ ॥ १ द. ˚ना धोनति स्युः । २ मु. पु. ‘धो नतेन च’ इति स्यात् । ३ द. स्तुतानिं । ४ द. विनिनता । ५ द. ˚निनी˚। ६ द. मुदयस्य; मुद्रितपुस्तके ‘सुन्नम्य भ्रूलतां शनैः’ इति स्यात् । ७ द. अना˚ । ८ द. ˚नालम्भनान् क्रिया । ९ द. ना । १० द. यै । ११ मुद्रितपुस्तके द. प्रतौ च ‘कानां’ । १२ मुद्रितपुस्तके ‘वदनस्याग्रत’ इति स्यात् । द. वदनं । १३ द. के । १४ द. प्रतौ नास्ति । ना. ८१