समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 704, कुल 726 में से
संदर्भ में पढ़ेंआद्या धनुर्रनता कार्या कुञ्चितोऽङ्गुष्ठकस्तथा । शेषा भिन्नोर्ध्ववलिता अरालेऽङ्गुलयः स्मृताः ॥ ७४ ॥ (अस्स्रुतेनाग्रतोतेन ? ) किञ्चिदभ्युत्थितेन च । सत्त्वशौण्डीर्यगाम्भीर्यधृतिकान्तीः प्रदर्शयेत् ॥ ७५ ॥ दिव्याः (पापार्थ ? ) ये चान्ये तानप्यविकृताननः । दर्शयेदुन्नतभ्रूश्च पाणिनानेन नर्तकः ॥ ७६ ॥ आशीर्वादं (तथा कानां ? ) स्त्रीकेशग्रहणं च यत् । निर्वर्णनं च सर्वाङ्गमाल(त्म )नो यद् विधीयते ॥ ७७ ॥ उत्कर्षणं च तत् सर्वं कार्यमभ्युन्नतभ्रुवा । दर्शयेद्धस्तयुग्मेन प्रदक्षिणांगतेन च ॥ ७८ ॥ विवाहं संप्रयोगं च कौतुकानि बहूनि च । अङ्गुल्यग्रसमायोगरचितस्वस्तिकेिन च ॥ ७९ ॥ परिमण्डलयातेन प्रादक्षिण्यं प्रदर्शयेत् । परिमण्डलसंस्थानं तथानेन महाजल(न)म् ॥ ८० ॥ द्रव्यं महीतले यच्च रचितं तत् प्रदर्शयेत् । दानं वारणमाह्वानमनेक ( वर्त्तनं तथा ) ॥ ८१ ॥ दर्शयेच्चलता तेन हस्तेनासंयुतेन च । स्वेदापनयनं कार्यं गत्वा(न्धा )घ्राणं तथासुना ॥ ८२ ॥ तत्प्रदेशे प्र(वृत्तेन ) पाणिना नृत्तकोविदैः । योषितां विषये चैष (पाणिना ? ) प्रायेण युज्यते ॥ ८३ ॥ कर्माण्येतानि सर्वाणि त्रिपताकः स(कव )दाचरेत् । नाहमित्यभिनेतव्य( मँस्यादश ?) स्थितेन च ॥ ८४ ॥ १ द. वेच । २ मुद्रितपुस्तके ‘आस्रुतेनाग्रतोऽनेन’ इति स्यात् । ३ द. वृत्ति । ४ द. वा । ५ द. पादार्था; मुद्रितपुस्तके ‘पदार्था’ इति स्यात् । ६ मुद्रितपुस्तके ‘तथैकेन’ इति स्यात् । ७ द. णा । ८ द. ल । ९ ‘खेदापनय’ इति मुद्रितमुनिपाठो दृश्यते । १० द. चरता । ११ द. वृ । १२ मुद्रितपुस्तके ‘पाणिः’ इति स्यात् । १३ द. तेन । १४ मुद्रितपुस्तके ‘मास्यदेश’ इति स्यात् ।