समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 705, कुल 726 में से
संदर्भ में पढ़ें६४४ समराङ्गणसूत्रधारे अस्यानुयायिनीं दृष्टिं विदधीत भ्रुवौ तथा । इत्यारालः ॥ अरालक्र(स्य) यदा वक्रानामिला त्वङ्गुलिर्भवेत् ॥ ८५ ॥ शुकतुण्डः स विज्ञेयः कर्म चास्याभिधीयते । न त्वमित्यमुना तिर्यक् प्रसृतेन प्रदर्शयेत् ॥ ८६ ॥ व्याव्रुत्तेन तु हस्तेन म(न) कृत्यमिति निर्दिशेत् । प्रसारितेन पुरतो नमताभिमुखं मुहुः ॥ ८७ ॥ कुर्यादावाहनं तिर्य(^{३}++मातु ?) विसर्जनम् । व्याव्रुत्तेन तु हस्तेन न कृत्यमिति वार्त्ताम् (?) ॥ ८८ ॥ (अवेक्षे निपोनिषेक अँ ?) परावृत्तेन शस्यते । दृष्टिभ्रुवौ चानुगते हस्तस्यास्य समाचरेत् ॥ ८९ ॥ इति शुकतुण्डः ॥ अङ्गुल्यो यस्य हस्तस्य तलमध्येऽग्रसंस्थिताः । तासामुपरि चाङ्गुष्ठः स मुष्टिरभिधीयते ॥ ९० ॥ एष प्रहारे (व्या)यामे कार्यः सभ्रुकुटीमुखैः । पार्श्वस्थहस्तयुग्मेन निर्गमे तु विधीयते ॥ ९१ ॥ इति मुष्टिः ॥ (येष्यतिग्रहणमात्रमर्धने ?) स्तनपीडने । असंस्तु(यु)तो विधातव्यो (र्मुहृष्टिभ्रुवो^{१०} तथा ?) ॥ ९२ ॥ अस्यैव तु यदा मुष्टेरूर्ध्वोऽङ्गुष्ठः प्रयुज्यते । हस्तः स शिखरो नाम तदा ज्ञेयः प्रयोक्तृभिः ॥ ९३ ॥ १ द. ना । २ द. तेन निर्यमातु वि० । ३ मुद्रितपुस्तके ‘उन्मता तु’ इति स्यात् । ४ द. णं । ५ द. श्र । ६ द. ष्टिं । ७ द. भ्र । ८ मुद्रितपुस्तकानुसारतः इदं ९२ तमश्लोकान्ते निवेशनीयमिति भाति । परन्तु द प्रतौ नास्ति । ९ ‘यष्ट्यसिग्रहणे गात्रमर्दने’ इति स्यात् । १० चतुर्थः पादोऽयं दृष्टिभ्रुवोर्हस्तानुयानविध्यर्थस्य लुप्तस्य श्लोकान्तरस्य स्यात् । ११ द. भ्रुवौ ।