समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 706, कुल 726 में से
संदर्भ में पढ़ेंपताकादिचतुष्षष्टिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः । ६४५ अयं वामो विधातव्यः कुशरश्मि(१चतुर्हि + ?) । हस्तद्वयं व्याप्रियतो(?) श्रो(सृ)णिग्रहणकर्मणि२ ॥ ९४ ॥ शक्तितोमरमोक्षे तु सव्यहस्तः प्रयुज्यते । पादौष्ठरञ्जने चैव चलिताङ्गुष्ठको भवेत् ॥ ९५ ॥ अलकस्य समुत्क्षेपे तत्प्रदेश३स्थितो भवेत् । कुर्यादनु(ग)नामस्य ह(४ष्टिश्रूयुगलं ?) तथा ॥ ९६ ॥ इति शिखरः ॥ अस्यैव शिखराख्यस्य अ(ह्य)ङ्गुष्ठकनिपीडिता । यदा प्रदेशिनी वक्रा स कपित्थस्तदा स्मृतो(तः)५ ॥ ९७॥ चापतोमरचक्रासिशक्ति(६चक्रांगदाविना ?) एतेनान्यानि शस्त्राणि सर्वाण्यभिनयेद् बुधः ॥ ९८ ॥ सत्यप्यभिनये जन्म ९+++ विक्षिपेन्मुहुः । अत्रापि हस्तानुगतं दृष्टिभ्रूकर्म शस्यते ॥ ९९ ॥ इति कपित्थः ॥ उत्क्षिप्तवक्रा तु यदा (तां कार्या ?) स कनीयसी । अस्यैव तु कपित्थस्य (१०दौंशौषटकमुखः ?) ॥ १०० ॥ अनेन होत्रं हव्यं च नमतान्नं विधीयते । द्वाभ्यामाकर्षण(११च्छत्राग्रं प्रग्रहप्रदर्शनम् ?) ॥ १०१ ॥ (१२ऐतेन न चास्यरादर्श वा जय ?) पुनः । अवक्षेपसमुत्क्षेप(पौ) व्यावृत्तेन तु क(ख)ण्डनम् ॥ १०२ ॥ १ द च चतुर्हे; मुद्रितपुस्तके 'धनुग्रहे' इति स्यात् । २ द. भिः । ३ द. वे । ४ मुद्रित पुस्तके 'ष्टि भ्रूयुगलं' इति स्यात् । ५ द. ताः । ६ मुद्रितपुस्तके 'वज्रगदादिना' इति स्यात् । ७ द. तर्जनी । ८ द. ़़्नानुपदानां का सं° । ९ मुद्रितपुस्तके 'नामिका' इति पदमत्रार्थसाङ्गल्याय कल्पनीयम् । १० मुद्रितपुस्तके 'तदासौ खटकामुखः' इति स्यात् ; द. ॰सौखटकामुखः । ११ द. च्छत्रग्रहं मुद्रितपुस्तके 'च्छत्रप्रग्रहाणां प्रदर्शनम्' इति स्यात् । १२ द. एतेन चामरादर्शव्यग्रजग्र पुन:; मुद्रितपुस्तके 'एकेन च स्यादादर्शधारणं व्यजनं' इति स्यात् ।