समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 708, कुल 726 में से
संदर्भ में पढ़ेंपताकादिचतुष्षष्टिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः । ६४७ ( ¹आद्यदीर्घे च विधास्ते ? ) विदध्यादु²न्नतामिमाम् । विम॑³मन्ता( नमन्तीं ) पुनः कुर्यादपराह्ण⁴प्रदर्शने ॥ ११३ ॥ कर्तव्या वदनाभ्याशे सा कुञ्चितविजृम्भिता । अङ्गुलीं⁵( लिः ) वृत्ततत्त्वज्ञै⁶र्वाक्यार्थस्य निरूपणे ॥ ११४ ॥ सोऽयं तदिति(?) निर्देशे प्रसूनौत्वा( तोक्ता )नकम्पिता । रोषे प्रकम्पिताग्रा( ग्रा )च हस्तेनाभ्युन्नतेन च ॥ ११५ ॥ प्रसृताग्रेण सं( न ) मता ( च ? ) कर्तव्या स्वेदरूपणा( णे ) । कुन्तलाङ्गदगण्डानां कुण्डलानां च रूपणे ॥ ११६ ॥ ( संर्दिश⁹ वर्तना कार्या प्राचलती च सा मुहः ? ) । ललाटसंवृतोद्वृत्ता कार्या ( हंस्ति¹⁰निरूपणा ? ) ॥ ११७ ॥ प्रसारितान्नामिता वा रिपूद्देशे( श? ) विधीयते । ( कार्या¹¹ संकपानी¹² साये सो प्रकोपदर्शने ? ) ॥ ११८ ॥ कोऽसावित्यापि¹³ निर्देशे तया( कार्या ) तिर्यग्विनिर्गमा¹⁴ । ( कर्णकूटनयेन¹⁵ शब्दश्रवणेस्तानसंश्रया ? ) ॥ ११९ ॥ कार्ये हस्तद्वयाङ्गुल्यौ संयुते संमुखे युते । वियोगे विघटन्त्यौ तु कलहे स्वस्तिकाकृती ॥ १२० ॥ ( चैतु¹⁶धनिता ? ) कार्ये परस्परनिपीडने । ऊर्ध्वाग्रंचलित्ता यावत् कर्तव्यै( र्ध्वै ) के + वर्णने¹⁷ ॥ १२१ ॥ कुर्याद् दृशं भ्रुवौ चा( स्य ) हस्तस्यानुगतं( ते ) बुधः । इति सूचीमुखः ॥ यस्याङ्गुल्यस्तु ( विरै¹⁸लामाभोरुहाङ्गुष्ठेन ? ) कुञ्चिताः ॥ १२२ ॥ १ ' आये दीर्घे च दिवसे ' इति स्यात् । २ ' प्रणतीकृता च कार्या ह्याये दीर्घे च दिवसे च ' इति तु मुनिः । ३ द. ममन्ती । ४ द. हे । ५ द. लि । ६ द. र्वि । ७ द. मनों च । ८ द. तुं । ९ द. तद्दिशवर्तिनी कार्या; मुद्रितपुस्तके तु ' तद्देशवर्तिनी कार्या प्रचलन्ती च सा मुहुः ' इति स्यात् । १० ' हमिति रूपणे ' इति स्यात् । ११ 'कार्या प्रकम्पिनी साग्रे चोग्रकोपप्रदर्शने' इति च स्यात् । १२ द. ना । १३ द. वि । १४ द. ता । १५ मुद्रितपुस्तके ' कर्णकण्डूयने शब्दश्रवणे श्रोत्रसंश्रया ' इति स्यात् । १६ द. वेतु विनता । १७ द. प्रा । १८ द. ' विरलाः सहाङ्गुष्ठेन ' इति स्यात् ।