समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 709, कुल 726 में से
संदर्भ में पढ़ें६४८ समराङ्गणसूत्रधारे ऊर्ध्वाश्च सङ्गताग्राश्च (स) भवेत् पद्मकोशकः । श्रीफल(क? )स्य कपित्थस्य ग्रहणं तेन रूपयेत् ॥ १२३ ॥ बीजपूरकमुख्यानामन्येषामपि दर्शनम् । कार्यं फलानां तत्तुल्यरूपेणोर्ध्वस्थितेन च ॥ १२४ ॥ कुर्यात् प्रसारितास्येन योषित्कुचनिरूपणम् । कुर्याद् दृष्टिभ्रुवौ चास्य हस्तस्यानुगते बुधः ॥ १२५ ॥ पद्मकोण(श)कः ॥ अङ्गुल्यः संहताः सर्वाः सहाङ्गुष्ठेन यस्य तु । (तँथानितग्धाश्चैव ?) स तु सर्पशिराः करः ॥ १२६ ॥ उत्तानितेन(तं तु) कुर्वीत सेचनोदकदानयोः । अधोमुखं विचलितं भुजगस्य गतौ पुनः ॥ १२७ ॥ (विधाने द्विगुणां वामवाहुतस्थिशरादधः ?) विदध्यात् सर्पशिरसा हस्तेनास्फोटनक्रियाम् ॥ १२८ ॥ रचितभ्रुकुटिः कुर्यादेवं तिर्यक्छिरो दधत् । पुरतोऽधोमुखे(नं भास्या ?)लनमाचरेत् ॥ १२९ ॥ दृष्टिभ्रूसहिता कार्या हस्त(स्या)स्यानुयायिनी । इति सर्पशिराः ॥ (अधोमुखीनानिस्तृणे ?)मङ्गुलीनां समागत(ति)ः ॥ १३० ॥ कनिष्ठाङ्गुष्ठकावूर्ध्वे तदासौ मृगशीर्षकः । इह साम्प्रत(मँस्तथेत्यत्ना ?) प्रयोजयेत् ॥ १३१ ॥ १ द. ग । २ द. क्तुं । ३ मुद्रितपुस्तके 'तथा निम्नतलाश्चैव' इति स्यात् । ४ द. नमेन कुं । ५ द. य । ६ द. नं । ७ द. न भकुंभास्फां । मुद्रितपुस्तके 'नेभकुम्भास्फा' इति स्यात् । ८ मुद्रित- पुस्तके 'अधोमुखीनां तिसृणा' इति स्यात् । परन्तु मुद्रितनाट्यशास्त्रे तु 'अधोमुखीनां सर्वासाम्' इति पाठो दृश्यते । ९ द. णो । १० द. र्ध्वों । ११ द. मस्त्येवेत्यत्नानं तत्प्रं । मुद्रितपुस्तके 'मस्त्येवेत्यत्र चैनं' इति स्यात् ।