समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 72, कुल 726 में से
संदर्भ में पढ़ेंप्रमाणमिति संस्थानसङ्ख्यानोच्छ्रयलक्ष्मभिः । प्रासादाः कस्य के वा स्युः सुरराजद्विजातिषु ॥ २१ ॥ प्राकारपरिखागुप्तं पुरे स्याद् गोपुरं क्व च । युग्ममध्याम्बुवेश्मनि क्व च स्युः क्व महानसम् ॥ २२ ॥ कोष्ठागरायुधस्थानभाण्डागारनिवेशनैः । व्यायामवृत्तसङ्गीतस्नानधारागृहादिभिः ॥ २३ ॥ शय्यावासगृहप्रेक्षावेश्मादर्शगृहैः पृथक् । क्रीडादोलाश्रयारिष्टगृहान्तः पुरवेश्मभिः ॥ २४ ॥ विटङ्कभ्रमनिर्यूहकक्षासंयमनादिभिः । अशोकवनिकाभिश्च लतामण्डपवेश्मभिः ॥ २५ ॥ वापीभिर्दारुगिरिभिश्चित्रामिः पुष्पवीथिभिः । एतैर्विशेषैरन्यैश्च विचित्रैर्विपिनाश्रयैः ॥ २६ ॥ मानोन्मानक्रियायामद्रव्याकृतिविनिर्मितः । निकेतननिवेशः स्याद् राज्ञां भागाश्रितः कथम् ॥ २७ ॥ पुरोधःसैन्यभूश्रेष्ठदैवचिन्तकमन्त्रिणाम् । कं कं च भागं प्राप्य स्युर्निवेशा नृपवेश्मनः ॥ २८ ॥ पुरे स्युर्दिक्षु भागेषु पदभागेषु केषु च । विप्रराजन्यविट्शूद्रास्तज्जैरन्तरजैः समम् ॥ २९ ॥ तथा कृषितुलांशिल्पकलापण्योपजीविनः । हिंसाश्रिताश्च पुरुषा निवेश्याः स्युः कथं क्व च ॥ ३० ॥ निवेशाः कीदृशाश्चैषां कियन्तो वा भवन्ति ते । शस्यं लोकेन वा तेषां कैः प्रवेशजलभ्रमैः ॥ ३१ ॥ धिष्ण्यमात्रं कतिविधं द्रव्याण्याद्यानि कानि वा । हेतुरेषां च सर्वेषां स्याच्च किह्यनुक्रमः ॥ ३२ ॥ १ द. शिल्पकल्याणाद्योप॑ । २ द. सस्यां ( ? शस्यं ) लोकेन वा तेषां । क. शस्यन्ते केन वा तेषां ।